________________
श्रीप्रवचनपरीक्षा ३विश्रामे ॥२१३॥
उपधानाश्रद्धानेआशातना
N
का आज्ञेत्याहआयारो खलु आणा तत्थवि उवहाणमिह महायारो। तयभावे जाणाणा महई आसायणा समए ॥१०४॥
आचार:-कालाधष्टप्रकारो ज्ञानाचारः, यदुक्तं-"काले विणए बहुमाणे उवहाणे तहा अनिण्हवणे । वंजणमत्थतदुभए अट्ठविहो | णाणमायारो ॥१॥" श्रीदश०नि० । खलुरवधारणे, तत्रापि-कालादिष्वष्टस्वप्याचारेविह-प्रवचने उपधानं महाचारः,सम्यग्वर्णाघुच्चारापेक्षया महानाचारः, तदभावे-उपर्युक्तकारणेन उपधानाभावे अनाज्ञा या सा महती आशातना समये इति गाथार्थः ॥१०४|| अथ हेतुहेतुमद्भावेन उक्तं समर्थयति
तेणं तीए जुत्तं अणंतभवभमणमेव जीवाणं । जं दीसह अज्झयणं विणावि तं तत्थिमं बुच्छं ॥१०५॥ उपधानाभावोऽनाज्ञा, सा च महती आशातना,तेन कारणेन तया-आशातनया जीवानामनन्तभवभ्रमणमेव युक्तम् ,आशातनायास्तद्धेतुत्वाद् , यदागमः-"आसायण मिच्छत्तं आसायणवज्जणा उ सम्मत्तं । आसायणानिमित्तं कुबइ दीहं च संसारं १॥" इत्यु|पदेशमालायां (४१०) तद्विनापि-उपधानोद्वहनं विनापि यदध्ययनं सामायिकादिसूत्राणां दृश्यते तत्रेदं वक्ष्ये-अनन्तरगाथायां | भणियामीतिगाथार्थः ॥४॥ अथ वक्ष्ये इति यदुक्तं तदाह
उवहाणवहणआसाजुत्ताणं जुत्तमेव अज्झयणं । जह जा छज्जीवणि अहिज्ज पवजआसाए ॥१०६॥
उपधानवहनाशा-सति सामर्थ्य सति च प्रस्तावे उपधानोद्वहनं करिष्यामीतिरूपा तया युक्तानामुपधानश्रद्धानपूर्वकतद्वहनाशाकलितचेतसामध्ययनं-सामायिकादिसूत्राणां पठनं युक्तमेच, दृष्टान्तमाह-यथा प्रव्रज्याशया-दीक्षाग्रहणेच्छया यावत् षड्जीवनिक
॥२१॥
For Pesonand Private Use Only