________________
श्रीप्रवचनपरीक्षा ३विश्रामे ॥२१२।।
श्रीमहानिशीथप्रामाण्यम्
देयमित्यत्रानुपधानिनो नमस्काराध्ययनेऽनन्तसंसारितोक्तति गाथार्थः ॥१००॥ अथ पूर्वपक्षिणोऽभिप्रायमाह| जइ एअंपिअ वयणं सम्मं ता निअमणंतसंसारी । सबो सावयवग्गो चउपंचविवजिओ हुज्जा ॥१०१॥ । यद्येतत्प्रागुक्तं वचनं सम्यग्भवेत् ता-तर्हि नियमाचतुष्पञ्चविवर्जितः सर्वोऽपि श्रावकश्राविकावर्गोऽनन्तसंसारी भवेदित्यक्ष| रार्थः, भावार्थस्त्वयं-प्रायः श्रावककुलोत्पन्नानामुपधानवहनमन्तरेणैव नमस्काराध्ययनादि दृश्यते, तेषां तदध्यापकानां चानन्तसंसारिता कथं युक्तेति गाथार्थः ॥१०॥ अथ पूर्वपक्षमुपसंहरनेव सिद्धान्तमाहतेणं खलु तं सुत्तं अपमाणं अम्हमेस संकप्पो। इअ चे पवयणपरमत्थसुण्णचित्तस्स चिट्ठअं॥१०२॥
तेन कारणेन प्रागुक्तलक्षणेन तत्सूत्रं-श्रीमहानिशीथमप्रमाणमेषोऽस्माकं-राकारक्तानां संकल्प इति पूर्वपक्षोपसंहारः, सिद्धान्तमाह-'इअ चेत्ति इति चेदुच्यते एवं प्रागुक्तं प्रवचनपरमार्थशून्यचित्तस्य चेष्टा, यथा देवतायत्तस्य यथा तथाऽविमृश्य जल्प| तश्चेष्टा-वाकाययोः क्रियाविशेषो परेषामुपहास्यहेतुस्तथाऽस्यापीति गाथार्थः ॥१०२।। अथ प्रागुक्तं कथमित्यत्र हेतुमाह
जमिणं दुवालसंगं गणिपिडगं पाणिणो अणाणाए । पुहवाइविराहित्ता भमंतऽणंते भवे घोरे ॥१०३॥
यद्-यस्मात्कारणादिदं द्वादशा-सामायिकादिष्टिवादपर्यन्तं गणिपिटकं अनाज्ञया-जिनाज्ञामन्तरेण विराध्य 'प्राणिनो' | जीवाः साध्वादयोऽनन्तान् भवान् नारकादिरूपान् घोगन्-दुःखगहनात्मकान् भ्रमन्ति-पर्यटन्ति, यदागमः-"इमं (इच्चेइयंमि) |दुवालसंगं अणाणाए विराहेत्ता अतीते काले अणंता जीवा चाउरंतसंसारकतारं परिअदिसु, अणागए काले परिअट्टिस्संति, पड| पन्ने काले संखेज्जा जीवा जाव परिअटुंति"ति नन्दीसूत्रे (५८) इति गाथार्थः ॥१०३ ।। अथाज्ञाया अभावोऽनाज्ञेतिकृत्वा
| ॥२१२।।
MARA
in Education Internation
For Personal and Private Use Only
www.jainelibrary.org