________________
श्रीप्रवचनपरीक्षा ३विश्रामे | ॥२१॥
श्रीमहानिशीथप्रामाण्यम्
चैत्यस्थितिपरित्यागभीतेर्विद्यमानत्वात् , प्रायः स्वाभ्युपगतमार्ग दूषयच्छास्त्रं न कस्यापि प्रमाणीस्याद् ,अत एव प्रतिमाभ्युपगमभयेन लुम्पाकेनाप्येतन्नाभ्युपगम्यते,यत्तु चैत्यवासाभावेऽपि साम्प्रतीनानां केषांचिन्महानिशीथानङ्गीकारभाषणं तच्चैत्यवासिवचनानुवाद एव बोध्यः,न पुनः परमार्थमवगम्याप्येतद्भाषणमिति गाथार्थः।।१९।। अथ श्रीमहानिशीथपरित्यागाभिप्रायेण पुनरपि राकारक्तः शकते
नणु उवहाणाभावे मंगलमाईण जं च अज्झयणं । जिणवरपमुहासायण अणंतसंसारयाहेऊ ॥१०॥
'उपधानाभावे' उपधानोद्वहनमन्तरेण 'मंगलाईणं'ति पञ्चमङ्गलमहाश्रुतस्कन्धादीनामध्यनं यत् तत् जिनवरप्रमुखाणाम्-अर्ह| सिद्धाचार्योपाध्यायसाधूनामाशातना अनन्तसंसारहेतुर्भवेद् , यदुक्तं-"से भयवं ! महती एसा निअंतणा कहं बालेहिं कजति ?, गोअमा! जे णं केइ न इच्छेजा एअंनिअंतण, अविणओवहाणेणं चेव पंचमंगलाइसुअणाणमहिजेइ अज्झावेद वा अज्झावयमाणस वा अणुण्णं पयाइ, से णं न हवेजा पिअधम्मे न भवेजा दढधम्मे न भवेज्जा भत्तिजुए, हीलिज्जा सुत्तं हीलिज्जा अत्थं हीलिज्जा सुत्तत्थोभए हीलिज्जा गुरुं जाव णं से गुरुं आसाएज्जा अतीताणागयतित्थयरे आसाएज्जा आयरिउवज्झायसाहुणो, जे णं आसाएज्जा सुअणाणमरिहंतसिद्धसाहू से तस्स णं सुदीहयालमणंतसंसारसागरं आहिंडमाणस्स" इत्यादि प्रागुक्तम् , अस्यालापकस्य संक्षेपार्थस्त्वेवं-यः कश्चित्प्राणी पश्चमङ्गलादीनि सूत्राण्युपधानोद्वहनमन्तरेणावीतेऽध्यापयति अध्यापयन्तमन्यमनुजानीते स | आशातयति सूत्रार्थोभयरूपमागमं गुरुं त्रिकालभावितीर्थकरसिद्धाचार्योपाध्यायसाधूश्च, तत्राशातनाप्रत्ययं तत्कर्म बनाति येन चतुरशीतियोनिलक्षसंभवानि नानादुःखान्यनुभवन्ननन्तसंसारं परिभ्रमति, यस्तूपधानोद्वहनपूर्वकमेतान्यधीते स आशातनाजन्यकर्मबन्धरहितः सुलभबोधिको भूत्वा संसारोच्छेदं विधत्ते, तथा यावत्प्राणी पुण्यपापयोर्विशेष न जानीते तावत्तस्य पञ्चमङ्गलं न
Harmonielimmitmendmonielm SAHISAPANINEPARATHARArany
MPARNATAN
||२११॥
Jan Education Interbon
For Personal and Private Use Only
www.neborg