________________
श्रीप्रवचनपरीक्षा ३विश्रामे ॥२०८॥
श्रीमहानिशीथप्रामाण्यम्
RAIGamin USA
एवं श्रीहरिभद्राचार्येणैव वणितं तेन कारणेन श्रीहरिभद्रवचसः-श्रीहरिभद्रसूरिवचनाद्भद्र-भद्रहेतुत्वाच्छेषं चतुर्थाध्ययनगतकति-| पयालापकव्यतिरिक्तं चतुर्थमध्ययनं शेषाणि च सप्ताप्यध्ययनानि वा, अथवा अशेषमपि-संपूर्णमपि भद्रमेव, यतः श्रीहरिभद्रसूरिणैव वृद्धसंप्रदायगतानामाचार्याणां विवादापनानामपि कतिपयपदानां श्रद्धानमेव भणितं,परं न ते दृषिताः, अतः स्वकीयश्रद्धानस्यापि न सम्यग् श्रद्धानमितिपदेन संशयारूढत्वमेव ज्ञापित,परं न श्रीमहानिशीथचतुर्थाध्ययनगतकतिपयालापकानामप्रामाण्यमेव ज्ञापितं, प्रत्युतान्येषां श्रद्धाने गणधरकृतमेतत्सूत्रमित्यादिवचोभिर्हेतु पितः, किंच-कर्मणां क्षयोपशमवैचिच्यात्कस्यचिन्महतोऽप्यश्रद्धानेऽन्येपामप्यबद्धानमेव युक्तमिति वक्तमप्ययुक्तं,गुरुनियोगादपि मिथ्याश्रद्धानस्याप्यागमे भणितत्वाद् , यदागम:-"सम्मदिट्टी जीवो उवहट्ट पवयणं तु सद्दहदा सहइ असब्भावं अणभोगा गुरुनियोगावा॥१॥"इतिश्रीउत्त०नि०(१६३)अत एव चतुर्थाध्ययने बहवः सैद्धान्तिकाः कांश्चिदालापकान् न श्रद्दधति,एवं तैरश्रद्धानरस्माकमपि न सम्यग्श्रद्धानमित्येवोक्तं,न पुनरन्यैरपि न श्रद्धेय. मिति भणितं, नवाते तथा श्रद्धालवो दृषिता इति सूक्ष्मधिया पर्यालोच्यमितिगाथार्थः।।९३॥ अथ राकारक्तवचनपद्धतावाश्चर्यमाह
चित्तं हरिभद्दवयं गणहरवयणाउ सुंदरमिहत्तं । चंदप्पहेण सेसं गणहरवयणेहिं सह चत्तं ॥१४॥ 'इहे'ति नास्माकं राकारक्तानां श्रीमहानिशीथविषयकं सम्यक्श्रद्धानमित्याधधिकारे गणधरवचनाद् अपिगम्यस्ततोऽपि सुन्दरंप्रशस्तं श्रीहरिभद्रसूरेर्वचो-वचनमुक्त-भणितं, केन ?-चन्द्रप्रभाचार्येण,एवं भणित्वाऽपि शेषम्-अश्रद्धानातिरिक्तस्थलोक्तं श्रीमहानिशीथवर्णनात्मकम् अर्थात् श्रीहरिभद्रसूरेरपि त्यक्तं, न केवलं, किंतु ?-गणधरवचनैः सहेति, अयं भावः-इहेति-चतुर्दशीपाक्षिकमीत्या श्रीमहानिशीथसूत्रं नास्माकं प्रमाणमित्याद्यसत्प्रलापावसरे गणधरवचनादपि-श्रीमहानिशीथवचनादपि श्रीहरिभद्रसूरि
HE
॥२०८॥
In Education
For Personal and Private Use Only
www.jainelibrary.org