________________
श्रीप्रवचनपरीक्षा ३विश्रामे
श्रीमहानिशीथप्रामाण्यम्
॥२०६॥
अथ महानिशीथसूत्रमेव नास्माकं प्रमाणमिति यत्तदाशङ्कादुर्वचनं, तत्रैवं प्रष्टव्यं-ननु भो राकारक्त! सदपि-अप्रामाण्यमपि किं स्वबुद्ध्या उत पूर्वाचार्यवचनेन वा १, श्रीहरिभद्रसरिप्रभृतिप्रसिद्धपूर्वाचार्यवचसा वा उच्यते, तत्रादिमः-खबुब्येति प्रथमो विकल्पोऽधमो-नीचः, अल्पज्ञस्याप्यनुपादेय इत्यर्थः, नहि निजमतिविकल्पना कस्यापि प्रमाणं स्यात् , सर्वज्ञवचसामेवास्थेयत्वादितिगाथार्थः ॥९॥ अथ पूर्वाचार्यवचसेति द्वितीयविकल्पे दोषमाहबीए जावयमित्तं जह भणिअंतं तएवि भणिअचं । ऊणमहिअं व भणणं तित्थासायण महादोसो ॥११॥
द्वितीयविकल्पे यावन्मानं यथा भणितं,पूर्वाचार्यैरिति बोध्यं,तत्तावन्मानं त्वयाऽपि भणितव्यम् ,ऊनमधिकं वा भणनं तीर्थाशा| तनालक्षणो महादोषः, तीर्थेन यद्यथाऽभ्युपगतं तदन्यथाभणने तस्याशातना महती, अनन्तसंसारहेतुत्वादिति गाथार्थः ॥११॥ | अथ श्रीमहानिशीथमधिकृत्य पूर्वाचार्यभणितमाह
हरिभद्दवयणमेअं पुवायरिआण चउत्थमज्झयणे । कतिपयपयाण सम्म सद्धा नो तेणमम्हंपि ॥१२॥
हरिभद्रवचनं श्रीहरिभद्रसूरिवचनमेतद्-वक्ष्यमाणं, किं?-श्रीमहानिशीथे चतुर्थाध्ययने कतिपयपदानां श्रीसिद्धसेनदिवा| करप्रभृतीनां सम्यश्रद्धानाभावः केषांचित्तु सम्यक् श्रद्धानं नासीत तेनास्माकमपि सम्यश्रद्धानाभावः, केषांचित्तु सम्यक्चद्धानमित्यर्थः, यदुक्तं "अत्र चतुर्थाध्ययने बहवः सैद्धान्तिकाः कांश्चिदालापकान् न सम्यग् श्रद्दधति, एवं तैरश्रद्धानरस्माकमपि न सम्यक्श्रद्धानमित्याह श्रीहरिभद्रसूरिः, न पुनः सर्वमेव चतुर्थाध्ययनमन्यानि वाऽध्ययनानि, चतुर्थाध्ययनस्यैव कतिपयैः | परिमितैरालापकैरश्रद्धानमित्यर्थः, यतः स्थानसमवायजीवाभिगमप्रज्ञापनादिषु न कथंचिदिदमाचचख्ये यथा प्रतिसंतापस्थलमस्ति
MIREDIUPARHITENIHIRDPAHIBILLIOMAN
NARASINI
॥२०६॥
For Persona Pivy