________________
उपधान
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१९७॥
PRIMARIAHINARAATANALISAPAHARITAL
न पुनः श्रावकाणामपि, न वेदमेवास्तामितिवाच्यं, साधूनामष्टविधो ज्ञानाचारः श्रावकाणां चोपधानवर्जः सप्तघेति क्काप्यागमे विविच्य व्यक्तेरनुपलम्भात् , परं देशविरतिसर्वविरत्योराराधनतपोविधौ भेदो यथा 'सामाइअंमि उ कए समणो इव सावओ हवइ जम्हा' इत्यत्र साधुसाम्येऽपि न सर्वथा साम्यं, किंतु देशेन, तद्वशाच्च तमुद्दिश्य कृतमप्यन्नादिकं मुड़े श्रावको, न पुनः साधुः, एवमन्यो| ऽपि भूयान् भेदः,एवं साधूनां श्रीआवश्यकश्रुतस्कन्धस्याष्टदिनात्मको योगः श्रावकाणां च वक्ष्यमाणः श्रीमहानिशीथोक्तो विधिरुपधानसंज्ञितः, यद्यप्युपधानशब्देन सामान्यतः श्रुताराधनतपोविशेषो भण्यते तथापि विविच्यमानो मुनीनां योगापरपर्यायमुपधानं श्रावकाणां तु पर्यायवियुतमेवोपधानमिति बोध्यं, नन्वेमाराधनविधिभेदः कथमितिचेजिनाज्ञाया अर्चनीयत्वात् , किंचउद्दिष्टभोजित्वेनारम्भपरिग्रहवतां कश्चिद्भेदो वक्तव्यः, स च पर्यालोच्यमानोऽयमेव, दृश्यते च लोकेऽपि समानरोगोपशान्तावपि कालपुरुषवयःप्रत्युपेक्षणया औषधादिपथ्यविधौ भेदः, परं पथ्यं तूभयोरपि देयमेव, किंच-एक एवाराध्यो भिन्न भिन्नाराधकापेक्षया मिन्नस्वभावेनैव परिणमति, यतो विद्यमानोऽर्हन साध्वानीतमेवाहारं भुञ्जानः साधुमपेक्ष्याहारभोक्तृतया परिणतः पूजास्वादकतया तु देवादिकमपेक्ष्यैव एवं बोध्यः, नहि येनैव विधिना साधुना प्रतिमा आराध्यते तेनैव विधिना श्रावकेणापीति, प्रवचनमर्यादाभङ्गापत्तेरित्यलं प्रपश्चनेति द्वितीयविकल्पे उपधानमिति नामापि सिद्धान्ते नोपलभ्यते इति प्रथमो विकल्पोऽसिद्धताग्रस्तो दर्शित इति गाथार्थः ॥८८॥ अथ द्वितीयविकल्पसंबन्धिनं द्वितीयविकल्पं दयितुमाह
नहि कत्थवि सिद्धंते सबसविही लभिज कीएवि । बिइए महानिसीहे सूआ उवहाणकिरिआए ।।८९॥ क्रियमाणोऽपि विधिः किं सकलः सूचारूपो वेति चेतसि विकल्प्य प्रथममसंभवेन दूषयति-'नहीं'ति नहि क्वाप्यागमे कस्या
I AMERamamal
॥१९७॥
For Per
and Private Use Only