________________
श्रीप्राचनपरीक्षा ३ विश्रामे
॥ १९४ ॥
Jain Education International
पयोगित्वेनाकिञ्चित्कर एव तेन कारणेनैव यथा भाद्रपदपञ्चम्यां पर्युषणा रूढा - प्रवचने सर्वजनप्रतीता इत्यमुना प्रकारेण तथा चतुर्द्दशीदिने पाक्षिकं पर्व सर्वज्ञैः समुक्तं, सम्यक् प्रकारेण भणितमित्यर्थः, एतेन बालचेष्टितकाच पिच्यकल्पं स्तनिकशतपदी कारोक्तमपि तिरस्कृतमिति बोध्यमितिगाथार्थः ||८५ || अथ चतुर्द्दशीं परित्यज्य पुनरपि चन्द्रप्रभाचार्यस्तत्प्रतिबद्धं किं त्यक्तवानित्याहचउदसिपखियभीओ परिहरह महानिसीहत्तंपि । तेणं उवहाणविही चत्तो उस्मुत्तरत्तेणं ॥८६॥
चतुर्दशी पाक्षिकभीतः श्रीमहानिशीथसूत्रमपि परिहरति स्मेति गम्यं, परिहरति स्म - त्यक्तवानित्यर्थः, श्रीमहानिशीथस्वीकारे चावश्यं पाक्षिकं चतुर्द्दश्यामभ्युपगन्तव्यं भवेत्, तत्र स्पष्टमेव पाक्षिकं चतुर्द्दश्यामुपलभ्यते तच्च प्रागुक्तमिति बोध्यं येन कारणेन श्रीमहानिशीथं त्यक्तं तेन कारणेनोत्सूत्ररक्तेन - तीर्थकदुक्तापलापपातकासक्तेन चन्द्रप्रभाचार्येणोपधानविधिः - श्राद्धानां नमस्कारादिश्रुताराधनतपोविशेषविधिः, अपिर्गम्यः, सोऽपि त्यक्त इतिगाथार्थः ॥ ८६ ॥ अथ श्रीमहानिशीथव्यवस्थापनाय युक्तेर्वक्ष्यमाणत्वादुपधानविषये चन्द्रप्रभाचार्यः कथं प्रष्टव्य इत्याह
णु उवहाणाभावो पडिसेहा अहव भणियभावाओ ? । पढमो असिद्धिरखसिगसिओ अवरो अ दुविगप्पो ||८७||
ननु भोश्चन्द्रप्रभाचार्य ! त्वया श्राद्धानामुपधानाभावः प्ररूप्यते तत्कि प्रतिषेधात् - सिद्धान्ते प्रतिषेधोपलम्भाद् अथो भणित्यभावात- सिद्धान्ते उपधानोतेरभावादिति विकल्पद्वयी प्रष्टव्या, तत्र प्रथमो विकल्पोऽसिद्धिराक्षसीग्रस्तः, तत्र प्रयोगो यथा - उपधानो द्वहनं श्राद्धानां नोचितं, प्रवचने प्रतिषिद्धत्वाद्, आलोचनायां पाण्मासाधिकतपोवदिति, अत्र प्रवचनप्रतिषिद्धत्वमसिद्धं, क्वाप्यागमे
For Personal and Private Use Only
उपधानसिद्धिः
| ॥ १९४ ॥
www.jainelibrary.org