SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३ विश्रामे ॥१९२॥ | पाक्षिकप्रतिक्रमणमपि कालानियमेन कर्त्तव्यमापद्येत, एवं रात्रावपि भाव्यम् एवं युक्त्या चन्द्रप्रभाचार्यस्य सर्वत्रापि गलपाश इति । गाथार्थः ॥ ८२ ॥ अथैवमुक्तेऽप्यभिनिवेशमत्यजन्तमतिप्रसङ्गेन दूषयितुमाह अण्णह सावणपमुहा मासा अहिणंदणाइणामेहिं । भणिआ तेणासाठे पुण्णिम पज्जोसवणपत्रं ॥ ८३ ॥ अन्यथा यदि चन्द्र प्रज्ञयाद्यनुसारेणैव पक्षस्यान्ते पाक्षिकप्रतिक्रमणमभ्युपगम्यते तर्हि चन्द्रप्रज्ञप्त्याद्यनुसारेणैव सांवत्सरिक| पर्वापि आषाढपूर्णिमास्यामेव कर्त्तव्यमापद्येत, तथाहि - "ता कहं मासा आहिताति वदेज्जा १, ता एगमेगस्स णं संवच्छरस्स दुवा| लस मासा पं०, तेसिं दो नामज्जा भवंति - लोइआ लोउत्तरिआ य, तत्थ लोइआ णामा सावणे १ भदवए२ अस्सोए ३ कत्तिए ४ | मग्गसिरे५ पोसे६ माहे७ फग्गुणे८ चित्ते९ वइसाहे १० जेहामूले ११ आसाढे १२ । लोउत्तरिआ णामा अभिनंदणे १ पट्टे २ विजए ३ | पीतिवद्धणे४ सिज्जंसे५ सिवे६ सिसिरे७ हेमचं८ वसंतमासे९ कुसुमसंभवे१० णिदाहे ११ वणविरोही १२ति, श्रीचन्द्रप्रज्ञप्तौ | दशमस्यैकोनविंशतितमे त्राभृतप्राभृतके, एवं सूर्यप्रज्ञप्तावपि बोध्यम्, (२८-५३) एवं च सति संवत्सरान्ते भवं सांवत्सरिकमितिव्युत्पच्या आषाढे मासे पूर्णिमायां पर्युषणापर्व सांवत्सरिकातिचारालोचनादिक्रियाविशिष्टं कर्त्तव्यं स्यादितिगम्यम्, अयं भावः- यदि | चन्द्रप्रज्ञत्यादिकं शरणीकृत्य पञ्चदश्यां पाक्षिकमभ्युपगम्यते, अभ्युपगम्यतां तर्हि तदेव शरणीकृत्याषाढसितपूर्णिमायां पर्युषणा| पर्वापि, अथ पर्युषणा न तथेतिचेत्तर्हि पाक्षिकमप्यास्तां, अथ पर्युषणापर्व भाद्रपदे पञ्चम्यामित्यागमे दृश्यते तथा परम्परापीति | चेत्तर्हि पाक्षिकमपि चतुर्दश्यामागमे पूर्वनिर्दिष्टे दृश्यते, तथा परम्पराऽपीति स्वीक्रियतामिति प्रतिबन्दीनदी दुस्तरेतिगाथार्थः॥ ८३ ॥ अथ प्रकारान्तरेणाप्यतिप्रसङ्गमाह- Jain Education International For Personal and Private Use Only पूर्णिमा पाक्षिकनिरासः ॥१९२॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy