________________
श्रीप्रवचनपरीक्षा ३ विश्रामे
॥१८८॥
Jain Educationa
पक्षोऽपीति युक्तिः सुखावबोधेतिगाथार्थः ॥ ७७ ॥ अथैवं सति पूर्णिमापक्षे किं संपन्नमित्याह
. तम्हा पुष्णिमपकखे छिन्नं तित्थं हविज्ज निअमेणं । एवं सेसमएसुवि भाविज्जा सुहुमबुद्धीए ॥ ७८ ॥ यस्माच्चतुर्द्दशीपक्षात्पूर्णिमापक्षो निर्गतस्तस्मात्पूर्णिमापक्षे नियमेन तीर्थं छिन्नं भवेद्, अयं भावः- श्रीवीरात्तद्विकल्पितकालकसूरिप्रभृतेर्वा चन्द्रप्रभाचार्य यावच्चतुर्दश्यां तीर्थमासीत्, तच्च पूर्णिमापक्षे तीर्थं न भवत्येवातस्तन्मते तीर्थस्य व्युच्छेदः संपन्नः, अथ तदानीं तत्तीर्थमेव, तर्हि तस्मिन् तादृक्स्वरूपेण विद्यमाने पूर्णिमापक्षस्य तीर्थबाह्यताऽनायाससिद्धा, अच्छिन्ने तीर्थे तदनभि मतप्ररूपणातस्ततः पृथग्भवनाद्, एवम् अमुना प्रकारेण शेषमतेष्वपि - औष्टिकादिपाशपर्यन्तेष्वपि छिन्नं तीर्थं ज्ञातव्यं, तेषामभि| प्रायेण स्वस्वमतोत्पत्तेरेव स्वाभिमततीर्थप्रवर्त्तनात् न पुनस्तीर्थकरादारभ्याच्छिन्नप्रवृत्तिस्तेषां संभवतीतिगाथार्थः ॥ ७८ ॥ अथ नश्यतोऽपराधिनस्तृणावरणकल्पां कुयुक्तिमपाकर्तुमाह
जोइसकरंडपमुहे पडिवाइकमा तिहीण णामाई । तत्तो पसिद्धपखिअपवनिमित्तं जिणुत्ताई ॥ ७९ ॥ ज्योतिष्करण्डप्रमुखे - ज्योतिष्करण्डचन्द्रप्रज्ञप्तिसूर्यप्रज्ञायादौ 'प्रतिपदादिक्रमात् प्रतिपद्मादौ कृत्वा क्रमेण यत्तिथीनां नामानि 'तत्तो' ततो जैनप्रवचने प्रसिद्धपाक्षिकपर्वनिमित्तं चतुर्थतपोविधानविशिष्टप्रवचनप्रसिद्धपाक्षिकपर्वपरिज्ञानार्थं जिने| नोक्तानीत्यक्षरार्थो, भावार्थस्त्वयं- पाडिवर विइय तहआ चउत्थि तह पंममी अ छड्डी अ । सत्तमिअट्ठमि नवमीदसमी इकारसी चैव ॥ १ ॥ बारसि तेरसि चाउद्दसी अ निट्ठवणिआ उ पन्नरसी । किण्हंमि अ जुण्हंमि अ एआओं तिही मुणेअव || २ || इति ज्योतिष्करण्डे (१०१-१०२ ) तथा दशमचतुर्दशे प्राभृतके "ता कहं ते दिवसाणं णामधेजा आहिताति वदेजा १, ता एगमेगस्स णं पकखस्स
For Personal and Private Use Only
पूर्णिमापाक्षिकप्रतिषेधः
1186411
www.jainelibrary.org