________________
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१८५॥
पूर्णिमापाक्षिकप्रतिषेधः
"वहहिं सीलव्यगुणवेरमणपच्चक्खाणपोसहोववासेहिं चाउद्दसमुद्दिठ्ठपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणा" इत्यादिकं श्रीभगवत्यादिगतं जिनप्रवचनं, विद्यत इति क्रियाऽध्याहार्या, अत्र गाथायां 'पुण्णमासिणिसुत्ति हस्वत्वं गाथानुलोम्यादवसातव्यं,तद्वत्कुत्रापि “चाउद्दसट्टमिपखिएसुत्ति प्रमुखवचनं न च दृष्टमितिगाथार्थः ॥७२॥ अथैवंपाठात्कि संपन्नमित्याहजम्हा दोसद्देहिं दुन्नि तिहीओ जिणिंदभणिआओ। तम्हा चउदसिपखिअसक्खी लेवोऽवि सूअगडे ॥७३॥ ___ यस्मात् द्वाम्यां शब्दाभ्यां द्वे तिथी जिनेन्द्रमणिते, उद्दिष्टपूर्णिमाशब्दाभ्याममावास्यापूर्णिमालक्षणं तिथिद्वयं भणितं, तच्च पाक्षिकं न भवति,तस्माच्चतुर्दश्येव पाक्षिकम् , अत्रार्थे साक्षी तावत्सूत्रकृदङ्गे 'लेवोवि' लेपनामा श्रावकोऽपि,यतस्तत्र द्वाभ्यां शब्दाभ्यां पाक्षिकव्यतिरिक्तास्तिथयो गृहीताः, तथाहि-"सेणं लेवए गाहावई समणोवासाए अहिगगजीवाजीवे'त्ति" द्वितीयाङ्गसूत्रदेशस्य वृत्तिरिय,तथा-चतुर्दश्यष्टम्यादिषु तिथिपूद्दिष्टासु-महाकल्याणकसंबन्धितया पुण्यतिथित्वेन प्रख्यातासु तथा पौर्णमासीषु च तिसप्वपि चतुर्मासकतिथिष्वित्यर्थः एवंभूतेषु धर्मदिवसेषु सुष्टु-अतिशयेन प्रतिपूर्णो यः पौषधो-व्रताभिग्रहस्तं प्रतिपूर्णम्-आहारशरीरब्रह्मचर्याव्यापाररूपं पौषधमनुपालयन् संपूर्णश्रावकधर्ममनुचरति ॥ इति श्रीसूत्रकृदङ्गे द्वितीयश्रुतस्कन्धेऽध्ययने लेपश्रावकवर्णनाधिकारे इति गाथार्थः ॥७३॥ अथ द्वाभ्यामपि शब्दाभ्यां पाक्षिकत्वेनामिमतयोस्तिथ्योग्रहणे को दोष इत्याकाङ्क्षायां सूत्रगतिभङ्गलक्षणं दोषमाह
सुत्तमि एगअत्थो णो जुत्तो णेगसद्दवयणिलो। अप्पग्गंथमहत्थं सुत्तं जपंति जेण जिणा ॥७४॥ सूत्रे एकोऽर्थः-पाक्षिकादिलक्षणोऽनेकशब्दवाचनीयः-नेकैरुद्दिष्टपूर्णिमादिलक्षणैः शब्दैवक्तन्यो न युक्तः, यतः सूत्रं तावद
॥१८५॥
san Educationa international
For Person and Private Use Only