________________
श्रीप्रजचनपरीक्षा ३विश्रामे ॥१८४॥
पूर्णिमापाक्षिकप्रतिषेधः
HILARIA HRITHIPATI
पखिअमेवेति सावधारणवाक्येन केवलचतुर्दश्या एव ग्रहणं कृतं, द्वितीयव्याख्याने च पाक्षिकपदमष्टम्या अप्युपलक्षकमित्यभिप्रायेण अट्ठमिचउद्दसीसु वेत्यष्टमीसंयुक्ताया एव चतुर्दश्या ग्रहणं कृतमिति चोध्यम् , अन्यथा द्वितीयव्याख्यानं निरन्वयं स्यात् , तयाख्यानस्य व्याख्येयपदस्य सूत्रेऽनुपलम्भात् , त्वदभिप्रायेण पाक्षिकशब्दस्य व्याख्यानं नाष्टमी न वा चतुर्दशी संभवति, तस्मात्प्रथमव्याख्यानं केवलचतुर्दश्यभिप्रायकम् , अन्यथा पर्यायान्तरमकृत्वा एवकारग्रहणासंभवाव्याख्यानासंभवाच्च, नहि कोऽपि सूत्रव्याख्याता घटशब्दस्य घट इति ब्रुवाणो व्याख्यातृत्वं भजते, द्वितीयव्याख्याने चाष्टम्युपलक्षिता चतुर्दशी गृहीतेतिवक्ष्यमा|णसूत्रकृदङ्गवृत्तिप्रदीपमादाय दशाचूणिरेवावलोकनीया, त्वदभिप्रायेण तु द्वितीयव्याख्यानं अट्ठमिपन्नरसीसु वेति घटते, तच्च नोक्तमिति नेत्रे निमील्य विचारणीयम् ,आदिशब्दायव्यवहारवृत्तिरपि,यथा-विजाणं परिवाडी पव्वे पव्वे य दिति आयरिआ। मासद्ध| मासिएणं पत्वं पुण होइ मज्झं तु॥१॥ आचार्याः पर्वणि पर्वणि विद्यानां परिपाटीर्ददति, विद्याः परावर्त्तन्त इति भावः, अथ पर्व | किमुच्यते,तत आह-मासार्धमासयोर्मध्यं पर्व पुनर्भवति,एतदेवाह-"पक्खस्स अट्ठमी खलु मासस्स य पखिों मुणेअछ। अण्णंपि | होइ पर्व उवरागो चंदसूराणं ॥१॥ अर्द्धमासस्य-पक्षात्मकस्य मध्यमष्टमी, मासस्य मध्यं पाक्षिक-पक्षेण निवृत्तं, तच्च कृष्णचतुर्द| शीरूपमवसातव्यं, तत्र प्रायो विद्यासाधनोपचारभावादिति व्यव० वृ० उ०६, अत्र वृत्तिकृता कृष्णचतुर्दशी विविच्य व्याख्याता तद्विद्यासाधनाधिकाराद् ,अन्यथा सामान्येन चतुर्दश्येव व्याख्याता स्यादन्थान्तरसम्मतेस्तथैव दृश्यमानत्वादित्यपि नेत्रे निमील्य | रहोवृत्या विचार्यमितिगाथार्थः ॥७१।। अथ पुनरपि युक्त्यन्तरमाहचाउद्दसट्ठमुहिट्ठपुण्णमासिणिसुपमुहजिणवयणं । न य कत्थवि चाउद्दसिअट्टमिपखिअपमुहवयणं ॥७२॥
॥१८४॥
In Education Intematon
For Personal and Private Use Only
www.jainelibrary.org