________________
M
श्रीप्रवचनपरीक्षा ३विश्राम ॥१७७॥
पूर्णिमा पाक्षिकप्रतिषेधः
a
aHITRA ARATHI MARA
जत्थ य पक्खिअसहो चउद्दसिसद्दो न तत्थ निद्दिहो। निअयतवायभिहाणे अण्णुण्णं तेण पन्जाओ॥६॥
यत्र च व्यवहारावश्यकचूादौ पाक्षिकशब्दस्तत्र चतुर्दशीशब्दो नास्ति,चकाराद्यत्र चतुर्दशीशब्दोन तत्र पाक्षिकशब्दः, कुत्र इत्याह-'निअय'त्ति नियततपआद्यभिधाने, चतुर्थादिनियततपोवक्तव्यतायामित्यर्थः, तेन कारणेन 'अण्गुण्णं'ति पाक्षिकचतुर्दशीशब्दयोरन्योऽन्यं-परस्परं भावनिर्देशात् पर्यायः-पर्यायता इति गाथार्थः ॥६॥ अथ पूर्णिमा पाक्षिकं न भवतीत्यत्र युक्तिमाह
चउमासपुण्णिमातिगमुवइ8 बीअअंगि लेवस्स। एवं चेव विवेगो चउदसिसइंमि नो दिवो ॥६॥ द्वितीयाङ्गे-मूत्रकृदङ्गनाम्न्यङ्गेत्तिद्वृत्तौ लेपस्य-लेपनाम्नः श्रावकस्यार्थात्तदधिकारे चतुर्मासकपूर्णिमात्रिकमुपदिष्टं-कथि-/ तम् , 'एवं चेव'त्ति एवं प्रकारेण चतुर्दशीशब्दे विवेकः-पृथक्करणं न दृष्टः क्वाप्यागमे, एताश्चतुर्दश्यश्चतुर्थादितपोनियता इत्यादिरूपेण न दृक्पथमागताः, तस्मात्पूर्णिमायां पाक्षिककृत्यं-चतुर्थतपःपाक्षिकातिचारालोचनादिकं न भवतीत्यर्थ इति गाथार्थः॥६१॥ अथ येषु ग्रन्थेषु पाक्षिकशब्दस्तेषु च न चतुर्दशीशब्दस्तन्नामग्राहमुपदर्शयन्नाहववहारवित्तिचुण्णीपीढि तह निसीहभासमाईसुं। जिणबिंबसाहुवंदणुबलिकखि पखिअं भणिअं॥६२॥
व्यवहारवृत्तिचूर्योः पीठे तथा निशीथभाष्यादिषु 'जिनबिम्बसाधुवन्दनं' चैत्यपरिपाटी साधुवन्दनं च, उपलक्षणाच्च चतुर्थतपः | | पाक्षिकप्रतिक्रमणं च,तैरुपलक्षितं-चिह्नीकृतं पाक्षिकनाम्ना पर्वदिनं भणितं-तीर्थकृदुपदिष्टं,तथाहि-"किइकम्मस्साकरणे काउस्सग्गे तहा अपडिलेहा। पोसहिअतवो अतहा अवंदणे चेइसाहूणं॥१॥" तत्र पोसहिअतवोत्ति पदं व्याख्यानयति-चउत्थछट्टमकरणे अट्ठमि
IIIIIPORNEDRAPARIA
॥१७७।।
For Personal and Private Use Only