________________
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१७५॥
पूर्णिमापाक्षिकः प्रतिषेधः
सङ्घ-तीर्थे निवारयति, भो इत्थं मा प्ररूपयेत्यादिवचोभिराक्रोशं ददति, ततः-तस्मात् सङ्घन बाह्यः कृतः, सङ्घोक्तमनङ्गीकुर्वन् तिरस्कृत इति गाथार्थः ॥५॥ अथ पूर्णिमापक्षव्यवस्थापने कुयुक्तिमाह
पक्खस्स मज्झमळूमि मासस्स य मज्झ पुण्णिम भणिअं। तेणं पुण्णिमपखिअमेवं जुत्तिपि जपेइ ॥५५॥ ___ अष्टमी पक्षस्य मध्यं मासस्य च मध्यं पाक्षिकं भणितं, तेन कारणेन पूर्णिमापाक्षिकम् , एवं युक्ति-युक्त्याभासं कुयुक्तिमितियावत् , जल्पतीति गाथार्थः ॥५६॥ अथ चन्द्रप्रभाचार्योक्तां कुयुक्ति प्रतिबन्धा दयितुमाहजह एवं चउमासं चउहिं मासेहिं तेहिं तिगुणेहिं । बारसमासा वच्छरपत्तीविअ पुण्णिमासु हवे ॥५७॥
यद्येवं त्वदुक्तप्रकारेण पूर्णिमायां पाक्षिकं तर्हि चतुर्भिर्मासैश्चतुर्मासकं, तैश्चतुभिर्मासैत्रिगुणैादश मासाः स्युः,तथा च पूर्णिमासु, अपिः एवार्थे, पूर्णिमास्वेव वत्सरप्राप्तिः-संवत्सरप्राप्तिर्भवेदिति गाथार्थः ।।५७।। अथानन्तरोक्तप्रतिबन्धा यज्जातं तदाहआसाढपुण्णिमाए कत्तिअमासे व अहव फग्गुणए । पज्जोसवणा जुत्ता तुम्भ मए न उण भद्दवए॥५८॥
तथा च पर्युषणापि आषाढपूर्णिमायां युक्ता स्याद् , अथवा मार्गशीर्षो वत्सरादि रिति नाममालावचनात् कार्तिकपूर्णिमायाम् , अथवा लौकिकटिप्पनकं चैत्रादिमासकं भवति तदपेक्षया फाल्गुनपूर्णिमायां वा पर्युषणा युक्ता, हे चन्द्रप्रभाचार्य तव मते, न पुनर्भाद्रपदमासे, तत्रापि चतुर्थ्यां पर्युषणाऽयुक्तेतिगाथार्थः ॥५८॥ अथ प्रतिबन्धा उपसंहारमाह-- तम्हा जह वच्छरिअं भद्दवए पखिअंपि चउदसिए। इअ सासणसंकेओ अणाइसिद्धो मुणेअवो ॥५९॥ तस्मात्कारणाद्यथा वत्सरिक-सांवत्सरिकं पर्युषणापर्व भाद्रपदे तथा पाक्षिकमपि चतुर्दश्याम् इति-अमुना प्रकारेण
॥१७५॥
Jan Econo
For Peso
Peso