________________
श्रीप्राचनपरीक्षा ३विश्रामे ॥१७४॥
तिलकाचायतिरस्कारः
मूढः-पूर्वापरविचारणाशून्यश्चन्द्रप्रभाचार्यों न जानाति, यदितिगम्यं, यदि श्राद्धेन प्रतिष्ठिता प्रतिमा जगत्पूज्या स्यात्तर्हि । तत्पुरतः-तस्याः-श्रावकप्रतिष्ठितायाः प्रतिमाया अग्रे, तां निश्रीकृत्येत्यर्थः, निपुणा-दक्षाः साधव ईर्याप्रतिक्रान्तिपूर्वकविधिवद् देववन्दनादिकां क्रियां कथं कुर्वति?, श्राबकप्रतिष्ठितस्थापनाचार्यस्य पुरत इव तस्या अपि पुरतो न कुर्वन्तीत्यर्थः,अन्यथा सूरिपदस्थापनादेरपि श्रावककर्त्तव्यताऽऽपत्तेरितिगाथार्थः ॥५३॥ इति चन्द्रप्रभाचार्यस्य प्रथमप्ररूपणाविषयीभूतगृहस्थप्रतिष्ठा निराकृता, अथ मूलप्ररूपणादोषमुपसंहरनेवापरदोषोत्पत्तये हेतुमाह
एवं आगमजुत्तिं अवहीलिअ अण्णहा कहिंतस्स । नय लोओ अणुरत्तो अण्णंपिअ सो विचिंतिज्जा ॥५४॥ ___ एवं-प्रागुक्तप्रकारेणागमयुक्ति-सिद्धान्तयुक्तिमवहील्य-अविगणय्यान्यथा-श्रावकप्रतिष्ठालक्षणं विपरीतमार्ग कथयति चन्द्रप्र|भाचार्ये लोको नानुरक्तः, तद्वचसि सविश्वासेन रागवान् जातः,न चन्द्रप्रभाचार्यायत्तो जात इत्यर्थः, पश्चादितिगम्यं, पश्चाच्छ्रावपाकप्रतिष्ठाव्यवस्थापनेन कोऽपि जनस्तीर्थात् पृथक्भूत्वा मदायत्तो न संपन्न इति विचिन्त्य 'अन्नपित्ति अपिरेवार्थे, अन्यदेव, च
पुनरर्थे, स चन्द्रप्रभाचार्यों विचिंतयेत् , स्वायत्तपृथक्समुदायकरणार्थ मयाऽन्यत्किञ्चिद्वक्तव्यमितिगाथार्थः॥ ५४ ॥ अथ तथा विचिन्त्य यत्कृतं तदाहपच्छा पुण्णिमपखिअमयमभिनिवेसओ अ संठवि।संघे निवारयंते संघेण तओ कओ बाहिं ॥५५।।
पश्चात-प्रागुक्तपर्यालोचनतोऽनु-पश्चादन्यदाऽवसरविशेषे विक्रमत एकोनषष्टयधिकैकादशशतसंवत्सरातिक्रमे११५९ पूर्णिमा|| पाक्षिकमभिनिवेशतः-अभिनिवेशमिथ्यात्ववशात्संस्थापितं, मूढानां पुरस्तात्प्ररूपितमित्यर्थः, कस्मिन् सति ?-अच्छिन्नपरम्परायाते
॥१७४॥
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org