________________
श्रीप्रववनपरीक्षा
३ विश्रामे
॥ १७३॥
| पठ्ठे साहु ||२|| इति दोधकद्विकेन साक्षादुक्त एव साधुः कथं न स्वीक्रियते १, किंच - श्रावकोऽपि त्वया द्वादशव्रतधारी तद्दिनत्र| ह्मचारी कृतोपवास इत्यादिविशेषणैर्गुणरत्नालङ्कृतो भणितः, सोऽपि यदि विशेषतः संवरवान् परिगृह्यते तर्हि कृतस्नान चन्दनविलेपनकनककङ्कणमुद्रालङ्कृतशरीराद्यपेक्षया अकृतस्नानादिको भूषितश्च वरीयान् अथ प्रतिष्ठानिमित्तं स्नानविलेपनादिकं न संवर| मालिन्य हेतुः, किंतु तत्कार्यप्रसाधकत्वेन गुण एवेति चेत् तर्हि साधुना किमपराद्धं ?, तावत्कार्यमात्रोपयोगि शौचादिकर्म कुर्वाणोऽपि | साधुः साधुरेव, तत्कृतचारित्रमालिन्याद्यसंभवाद्, एतेन दमयन्त्यादिनिदर्शनमपि निरस्तं, श्राविकायामुक्तलक्षणलक्षणस्याप्यसंभवात्, नहि श्राविका सदशवस्त्रयुगलवत्येव स्यात्, कञ्चुकाद्यभावे तीर्थकृदाशातनापत्तेः, किंच- भोः तिलकाचार्य ! शास्त्रं तु | दोधकत्रिकं तदप्यज्ञातकर्तृकं तच्छरणीकृत्य श्रीहरिभद्रसूरिप्रमुखव चांस्य प्रमाणीकुर्वाणस्य तव दाक्ष्यं त्वय्येव विश्रान्तं भवतु, मान्यत्रेत्यस्मदाशीः । एवं दोधकत्रिकाभिप्रायमप्यजानानस्तिलकाचार्य उत्सर्गापवादरचनया रत्नाकरवत् समुद्रवद्गम्भीरमलब्धमध्यं गणधरवचोऽर्थात्तदभिप्रायं कथं जानाति १, न कथमपीत्यर्थः, तस्मादलमालजालेन त्वत्प्रतिष्ठाकल्पेनेति । एतेन शतपदीकारोक्तमपि निरस्तं बोध्यं तत्रापि तिलकाचार्यकृतप्रतिष्ठाकल्पसमान कल्पनाया विद्यमानत्वाद्, अत्रैवंविधकिञ्चिद्विस्तरकथनेन | राकासार्द्ध राकाश्ञ्चलिकागमिककटुकवन्ध्यपाशलक्षणा: पडपि कुपाक्षिकास्तिरस्कृताः, तेषां प्रायस्तीर्थप्रद्वेषेण साधुप्रतिष्ठानिषेधपरत्वेन | तिलकाचार्य कृतप्रतिष्ठाकल्पाभास एव शरणमभूत् स चागमयुक्त्या तिरस्कृत इति गाथार्थः ॥ ५२ ॥ अथ गृहिप्रतिष्ठायां प्रसङ्गतो लोकप्रसिद्धमपि दोषमाह -
न मुणइ मूढो पडिमा पट्टिआ सावएण तप्पुरओ । इरिआपमुहं किरिअं कुणंति कह साहुणो निउणा ? ॥ ५३ ॥
Jain Education International
For Personal and Private Use Only
तिलकाचायतिरस्कारः
॥१७३॥
www.jainelibrary.org.