________________
श्रीप्रव
तिलकाचा
यतिरस्कारः
चनपरीक्षा ३विश्रामे ॥१७२॥
IMANIDHIMANS
WAMImatiPRIMINANTI AMARACHANDNIBANAUNARIES
R Dainment JHANIRAULI
इमात्रेणोपजीव्य त्वया प्रतिष्ठाकल्पाभासो विहितस्तेषु प्रतिष्ठाकल्पेषु यथा प्रतिष्ठाकारकलक्षणमुक्तं दृष्ट तथा लक्ष्यतया कश्चित्प्रतिष्ठाकारोऽपि दृष्टः श्रुतो नवा ?, दृष्टश्चेत् स किं साधुःश्रावको वा?, नान्त्यः,क्वापि श्रावकेण प्रतिष्ठा कर्त्तव्येत्येवंरूपेणानुपलम्भात् , साधुश्चेत्तर्हि प्रतिष्ठाकल्पोक्तलक्षणोपेतेन साधुना प्रतिष्ठा कर्त्तव्येत्येवं ब्रुवाणाः प्रतिष्ठाकल्पकारकाः श्रीहरिभद्रमुरिप्रभृतयोऽशुद्धभाषका इति तु धाष्टर्थमवलम्ब्यमानस्त्वत्पितृभिरपि वक्तुमशक्यत्वात , शुद्धभाषकैस्तैलक्ष्यतयोक्तस्यापि साधोः प्रतिष्ठाकारलक्षणमपहृत्यालक्ष्यभूते'वपि श्रावकेषु तदारोपयतस्तवैवाशुद्धभाषित्वात स्वास्येनैवात्मनः कुपाक्षिकतिलकत्वमुद्घोषितमिति बोध्यं, किंच-लक्ष्यानुसारेण लक्षणकल्पना ज्यायसीति सर्वप्रामाणिकाभिमतं, परं लक्षणानुसारेण लक्ष्यकल्पनाकुकरी राकान्वयिगृहे एव नृत्यन्ती दृष्टा, तस्माद्यथा | द्वयोरपि लक्ष्यलक्षणयोः प्रतिष्ठाकल्पोक्तयोर्मध्यात साधुलक्षणं धर्मिणं परित्यज्य प्रतिष्ठाकारलक्षणं धर्ममन्यत्र रोपयसि तथा यथारुचि किञ्चिदन्यदेव प्रतिष्ठाकारलक्षणं विकल्प्य प्रतिष्ठाकारे साधावेव किमिति नारोपयसि ?, धर्मिपरित्यागापेक्षया धर्मपरित्यागे लाघवात् , धयंशेऽन्यतीर्थिकैरपि सह विप्रतिपत्तेरभावात् , तथाहि-यथा हरिइरादयोऽन्यतीर्थिकैर्देवत्वेनाभ्युपगताः जैनैस्तु न | तथा, परमुभयेषामपि धर्मितया तेऽमिमता एव, एवमृषभादयोऽपि जैनैर्देवत्वेनाभ्युपगताः, शेषैस्त्वन्यथेति, धर्मितया तूभयेषामप्यमिमता एव, नहि लोकेऽपि कोऽप्यतिमूखोऽपि ह्रस्वां खट्वामालोक्य पादच्छेदं विधत्ते, यतः शरीरानुमानेन शय्याया अन्यथाकरणं युक्तं, न पुनः शय्यानुसारेण शरीरावयवानामपि न्यूनताकरणं दृष्टं श्रुतं वा, त्वं तु ततोऽप्यधिको, यदन्यथैव विधायान्यानप्युप| दिशनसि,किंच-'न्हाणविलितउ चंदणिणु' इत्यादिदोधकत्रिकेण व्यक्त्या अनुक्तोऽपि श्रावकः कल्पितस्तर्हि "कंकणमुद्दसमुद्दकर सुइअसंमजिअदेहु । सदसअखंडिअवत्थजुअल जणवल्लह जह मेहु ॥१॥सुरनरपूइअपयपउम सुहनेवत्थसणाहु । सुव्वयवंत पसन्नमणु, कुणइ
a msunainamain
॥७२॥
Iain Education in
For Personal and Private Use Only
www.jainelibrary.org