________________
Huntle
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१७१॥
तिलकाचातिरस्कारः
m amalinimaliHRIMAmlindiatimittanA
जह आणवेइ'त्ति (५१०*) दशवैकालिके, तवृत्तिः-यथा किं बहुना ?, सर्वत्रैव सूत्रस्य मार्गेण चरेद्भिक्षुः, आगमोद्देशेन प्रवर्ने- तेति भावः,तत्रापि नौघत एव यथाश्रुतग्राही स्यात् ,अपितु सूत्रस्यार्थः पूर्वापराऽविरोधी तंत्रयुक्तिघटितः पारमार्थिकोत्सर्गापवादगो यथाऽऽज्ञापयति-नियुङ्क्ते तथा प्रवर्तेत, नान्यथे"ति दश वृ० । तथा "जंसुअमहिजइ बहुं सुत्तत्थं च निउणं नयाणेइ । कप्पे ववहारंमी न सो पमाणं सुअहराणं ॥१॥ति व्यवहारवृत्तौ,न चान्यत्र स्यादपवादः, परं शुचित्वादावपवादोन भविष्यतीति शङ्कनीयम् , उत्सर्गमात्रस्याप्यपवादसापेक्षत्वाद् , यदागमः-"जावइआ उस्सग्गा तावइआ चेव हुंति अववाया। जावइआ अववाया उस्सग्गा तेत्तिआ चेव ॥१॥"त्ति, नवरं मैथुनवर्जः,यदुक्तं-"कामं सबपएसुवि उस्सग्गववायधम्मया जुत्ता । मोत्तुं मेहुणधम्म न विणा सो रागदोसेहि ॥१॥"ति, यच्चोक्तं-कनककङ्कणमुद्रिकादिपरिधानं न युक्तं तदप्ययुक्तं, यतस्तावन्मात्रकालं परिधीयमानं भूषणं न विभूषणहेतुः न वा परिग्रहः, तथा परिणामाभावात् , परिणामविशेषेण तु नाम्नोऽप्यन्यथाभूतत्वाद् , यथा स्थादिकं तीर्थकृदन्दननिमित्तं प्रगुणीकृत्य प्रवर्तितं सत् धर्मयानमुच्यते, साम्प्रतं तु यद्यपि चन्दनरसेन तदाकृतयो यथास्थानं विधीयन्ते तथापि कालविशेषे पुरुषविशेषस्य तथा तत्परिधानमप्यस्माकं सम्मतमेव, यच्चोक्तं-'साधूनां न रूपवत्वं', तदप्यसारं, रूववत्वेन साधुनेपथ्यस्यैव प्रतिपादनाद्, यदागमः-'चत्तारि पुरिसजाया पं०,तं०-रूवसंपन्ने नाममेगे नो गुणसंपन्ने४' तवृत्तौ-रूपं सुविहितसाधुनेपथ्यरूपं भणितं, तेन तृतीयभङ्गे 'रूवसंपन्नेवि गुणसंपन्नेवित्तिलक्षणे सुविहितनेपथ्यसनाथः साधुरुक्तः, चतुर्थे तु 'नो स्वसंपन्नेत्तिलक्षणे गृहस्थादिरुक्तः,तेन रूपसंपन्नोऽपि साधुरेव,न गृहस्थ इतिबोध्यं,यत्तु सर्वप्रतिष्ठाकल्पेषु यत्प्रतिष्ठाकारकलक्षणमुक्तं तत् साधुषुन घटते अतः श्राद्ध एव प्रतिष्ठाकारो युक्त इति तिलकाचार्येणोक्तं तत्र स एव तावदित्थं प्रष्टव्यः,ननु भोः तिलकाचार्य यान् प्रतिष्ठाकल्पान् वा
definim
mITRAHIMIMARATHI
॥
Jan Educationa international
For Personal and Private Use Only
Tww.jainelibrary.org