________________
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१६४॥
प्रतिष्ठाशब्दार्थः
कारात्-प्रकरणविशेषादर्थप्रतिपत्तिः-अर्थाभ्युपगमो भवति,तत्र दृष्टान्तमाह-'जहे' त्यादि,यथा लष्टिप्रतिष्ठिता ध्वजा, लप्टौ-दण्डे प्रतिष्ठिता-न्यस्ता यथा ध्वजेत्यर्थः। यदागमः-"तओ पुणो जञ्चकणगलद्वियपइट्ठिअंसमूहनीले'त्यादि श्रीपर्युषणाकल्पे, तथा "भरहंतपइट्ठाए महुरानयरीए मंगलाई तु । गेहेसु चच्चरेसु अछन्नवइगामअद्धेसु॥१॥त्ति महुराए नयरीए घरे कए पढमं अरहंता पइट्ठवि-| अंति मंगलनिमित्तं, जइ न करेति घरं पडइ"त्ति, अत्र ब्राह्मणक्षत्रियादिगृहेषु न्यसनमात्र एव प्रतिष्ठाशब्दार्थः, एतेन प्रतिष्ठा१प्रतिष्ठान२ प्रतिष्ठापन३ संस्थापन४ स्थापना५ दिशब्दानामेकार्थतां विकल्प्य परस्परपर्यायवाचिता तिलकाचार्येण प्रतिपादिता साऽपि निरस्ता, प्रतिष्ठादिशब्दानां पर्यायवाचित्वेन विपश्चित्प्रयोगादर्शनात । किंत 'अधिकारवशादर्थप्राप्ति'रितिन्यायात क्वचित्प्रतिप्ठाशब्दः शोभावाची, यथा “प्रतिष्ठा प्रापितः शिष्यो, गुरुणा गुरुविद्यया" क्वचिदाधाराधेयसंवन्धवाचको यथा-"गुरुरासने प्रतिष्ठाय, शिष्यानध्यापयत्यमून्" तथाऽऽगमप्रयोगोऽपि-"तओ पुणो जच्चकणगलट्ठिपइटिअ"त्ति, तथा णिगन्तप्रयोगेणापि,यथा 'गपूजयेत् प्रतिष्ठाप्य, चैत्येऽर्हत्प्रतिमा सुधीः।" क्वचिच्च प्रतिष्ठाप्यविषयकाभिमन्त्रितवासक्षेपमन्त्रन्यासादिक्रियाविशेषवाचको, | यथा “मूरिः प्रतिष्ठां कुर्यादि'त्यादि,एवं प्रतिष्ठानशब्दोऽपि प्रायः स्थित्यर्थाभिधायकः, प्रतिष्ठापनशब्दस्तु णिगन्तप्रयोगात्स्फुट
एव भिन्नार्थः, नचैवं प्रतिष्ठाप्रतिष्ठानशब्दयोः प्रतिष्ठानमिति निरुक्तेरभेदः, प्रतिष्ठन्तं प्रयुक्ते इति प्रतिष्ठापनमिति निरुक्तेरेव | | भेदस्तेन प्रतिष्ठापनशब्दो णिक्प्रत्ययनिप्पन्नत्वेन प्रतिष्ठाप्रयोजककर्तृक्रियाविशेषवाचकः,एतेन 'जं न परिद्वविअ' मित्यस्य शब्दस्य | यन्त्र परित्यक्तमितिपर्यायो वृत्तिकृता दत्तो न पुनः परित्याजितमिति सम्मतिः प्रतिष्ठानप्रतिष्ठापनशब्दयोरेकार्थताभिधानाय तिल-12. काचार्येण प्रदर्शिता साऽपि निरस्ता, धात्वन्तरमासाद्य णिगन्ताणिगन्तप्रयोगयोस्तुल्यार्थाभिधायकत्वस्य दृष्टत्वाद् , यथा संभा-
USERMATL PRIORAIPASAIRMANEEDPURARIAN
A BSTRAilnalihement
R AINEDAINIOS
॥१६४॥
For Person and Private Use Only