SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव प्रतिष्ठाशब्दार्थः चनपरीक्षा ३विश्रामे ॥१६५॥ LITERAILERTRAITHILITAHIRAIN वयतीतिणिगन्तप्रयोगेणाप्यणिगन्तप्रयोगः शकते इति तुल्यार्थः, न पुनरेकधातुप्रयोगेऽपि णिगन्ताणिगन्तयोरविशेषः, प्रयोजकप्रत्ययस्य वैयर्थ्यापत्तेः, नन्वेकधातुप्रयोगेऽपि क्वचिद्भिनार्थानमिधानं यथा स्थापनशब्दस्य पर्यायः प्रतिष्ठेतिचेत् , मैवं "उपसर्गेण धात्वों, बलादन्यत्र नीयते" इति वचनात् प्रतिना सोपसर्गस्य धातोः केवलधात्वपेक्षया भिन्नार्थाभिधायकत्वेन वस्तुगत्या भिन्नत्वाद् , अत एवात्मनेपदिकः परस्मैपदिको वाधातुःप्रयोजनणिगन्तप्रत्ययप्रयोगादुभयपदिको भवति, वस्तुगत्या स्थापनशब्दो लक्ष्यवस्त्वाकृतिमात्राभिधायकः, तथाहि "नामजिणा जिणनामा ठवणजिणा पुण जिणिंदपडिमाओ । दवजिणा जिणजीवा भावजिणा समवसरणत्था ॥१॥ इति (चैत्यवन्दनभाष्यं) तथा “नामठवणाणं को पइविसेसो?, नामं आवकहि, ठवणा इत्तरिआ वा होज"त्ति तथा "नाम ठवणादविए खित्तदिसातावखित्तपण्णवए । सत्तमिआ भावदिसा होइ अट्ठारसविहा उ ॥१॥" त्ति । क्वचिद्भावादिस्थापनारोपणेऽपि, यथा “उम्मरगनिवारणयं सम्मग्गट्ठावणं च भवाणं । एमाई जं विहि अणुमोएऽहं तमपहि ॥" (आराधना) इति । ननु क्वचित्स्थापनाशब्दस्य पर्यायः प्रतिष्ठेत्युपलभ्यते तत्र किं कर्तव्यमितिचेच्छृणु, क्वचित्कथश्चिद्युत्पत्त्याऽप्येकार्थतां विभाव्य छन्दोऽनुवृत्त्या धर्मधर्मिणोरभेदोपचारमङ्गीकृत्य वा ग्रन्थकाराणां तथा प्रयोगसंभवेऽपि सर्वत्रापि स्थापनाशब्देन प्रतिष्ठा वाच्येति न पूत्करणीयम् , अनन्तरोक्तयुक्त्या तिलकाचार्यस्य गलपादुकान्यायोत्पत्तेः, क्वचित्कस्यचिच्छब्दस्य कश्चित्पर्याय दृष्ट्वा सर्वत्रापि तथा पर्यायकरणे "पतङ्गो द्योतयन् विश्वं, कस्य नानन्दकारणम् ?" तथा "प्रदीपरूपमालोक्य, पतङ्गो नाशमाश्रित" | इत्युभयत्रापि पतङ्गशब्दस्य सूर्यपर्यायकरणप्रसक्तेश्च, तस्मात्वापि कविप्रयुक्तानां खगपतङ्गादिशब्दानां सूर्यादिशब्दैः पर्यायं दृष्ट्वा | सर्वत्रापि तथा पर्यायकरणाभाववत् स्थापनाशब्देन सर्वत्रापि प्रतिष्ठापर्यायो न युक्तः, प्रयोगानुसारेण पतङ्गादिशब्दवदस्याप्यनेका ॥१६५॥ For Per and Private Use Only www.jainelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy