________________
श्रीप्रवधनपरीक्षा ३विश्रामे ॥१६०॥
तिलकीयकल्प पीठिका
वंतु । जो नवि नाहिसमयकलिऑन कुदंसण दीसंतु ॥३॥ तत्र 'वयछक्क कायछक्कं अकप्पो गिहिभायणं। पल्लिअंक निसिजाए सिणाणं सोभवजणं ॥१॥ इत्यागमात् साधूनां स्नानं शरीरे चन्दनविलेपनं गन्धैः सुगंधीकरणं शोभाङ्गत्वान्नैव युज्यते, तथा “आ| यपमाणा कप्पा अड्ढाइजा य वित्थडा हत्था" इत्यागमेषु प्रमाणोपेतवस्त्रपरिधानेन साधोरचेलकत्वस्थापनादखण्डसदशवस्त्रपरिधानमपि न युज्यते । तथा-"जत्थ हिरण्ण सुवणं हत्थेण पराणयंपि णो छप्पे । कारणसमल्लिअंपिहु गोअम! गच्छं तयं | भणिमो ॥१॥ इत्यागमेन साधोः सुवर्णस्पर्शनमात्रमपि निषिद्धं,तत्कथं कङ्कणसूत्राद्यलंकारमङ्गीकरिष्यति', अतः प्रतिष्ठाकारलक्षणं || सर्वमपि साधोविरुद्ध्यते, श्रावकस्यैवोपपद्यते, ततस्तेनैव प्रतिष्ठा कार्या, अत्र चार्थे अनुमिमीहे-जिनबिम्बप्रतिष्ठा श्रावकेणैव
कर्त्तव्या, द्रव्यस्तवरूपत्वात्पुष्पपूजादिवद् , द्रव्यस्तवत्वं चास्याः "जिणभवणबिंबठावणजत्तापूआइ सुत्तओ विहिणा। दवत्थउत्ति |णेअं भावत्थयकारणत्तेणं ॥१॥" इति वचनात् , तथा सावद्यरूपत्वादितिहेतोः जिनप्रतिष्ठा श्रावकेणैव कार्या,सावद्यरूपत्वं चास्या
एवं-शुद्धिं कृत्वा प्रतिष्ठाकारश्चन्दनमभिमन्त्र्य स्वहस्तेन विम्बस्य विलेपनं करोति, अभिमन्त्रितधूपोत्पाटनं स्वहस्तेन करोति, | पुष्पवासयुक्ताभिमन्त्रितमदनफलबन्धनं स्वहस्तेन करोति, प्रत्यग्रवस्त्रेण प्रतिमाच्छादनं तदुपरि चन्दनच्छटामोचनं पुष्पक्षेपं नानागन्धयुक्तसप्तधान्यक्षेपणं च स्वहस्तेन कगेति, ततो लग्नसमये त्रिपञ्चसप्तवारान् सर्वाङ्गं प्रतिमा स्पशेत् , पुनर्वासनिक्षेपणं पुष्पारोपणं |च प्रतिष्ठाकारः स्वहस्तेन करोति इति सर्वप्रतिष्ठाकल्पेपूक्तत्वादिति कुपाक्षिकतिलकतिलकाचार्यः स्वमतानुरागेण श्रावकप्रतिष्ठाव्यवस्थापनाय यत्तत्प्रलपचन्मत्तकेलिसदृशी प्रतिष्ठाकल्पाभासपीठिकामुत्सूत्रविड्भृतमुखचञ्चूनां चिरंजीविनां विश्रामकृते कृतवान् , | तत्र सामान्यतस्तावदित्थममिधातव्यं
www.jainelibrary.org
For Personal and Private Use Only
Jan Educabonnembo