SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥१५९॥ AL % A च खकीयं मौखर्यमेवाविष्कर्त्तव्यं स्यात् , नानुमानाभासो बलीयसाऽपि पुरुषेण प्रामाणिकपर्षदि परवादिजयायोद्भावितः स्वात्मनः | तिलकीयः शरणं भवितुमर्हति, किं खड्गाभासेनाप्यर्ककाष्ठेन वैरिसैन्यं जेतुं शक्यते ? इत्यादि स्वयमेव बोध्यं, मतानुरागेणेतिपदेन तिलकाचा- कल्पामास: र्यस्य राकाशाखापतितत्वं सूत्रितं ॥ 'लविउत्ति लपितो यत्तत्प्रलपितः, कुत्र ?-'कल्पाभासे' कल्पशब्देनेह प्रतिष्ठाकल्पस्तद्वदाभासते अप्रतिष्ठाकल्पोऽपि प्रतिष्ठाकल्पतया आभासते इति प्रतिष्ठाकल्पाभासस्तस्मिन् , किं कुर्वन् , ?--'धर्मपरमार्थमजानन्' धर्मस्य-श्रुतचारित्रात्मकस्य परमार्थो-रहस्यं सामान्यविशेषोत्सर्गापवादात्मकं न ज्ञातवानित्यर्थः। | अथ तिलकाचायप्रलपितं प्रादुष्कर्तुं तद्विकल्पिता प्रतिष्ठाकल्पपीठिका (दर्यते) यथा-उनमो भगवते श्रीपञ्चमङ्गलाय ॥ येनावरहितेनापि, विषमास्त्रो विनिर्जितः। महावीरः सवः पायाल्लोकोत्तरपराक्रमः॥१॥ सर्वोत्तमसमाचीर्णज्ञानचारित्रदर्शनाः। गुरवः सुखमेधन्तां, सिद्धिश्रीसंगमोद्यताः ॥२॥ साधूनां श्रावकाणां च, विधिर्यत्र निरुच्यते । स निष्कन्दितसंदेहश्चिरं जीयाजिनागमः ॥३॥ एवं समाहितस्वान्तः, स्मृत्यर्थ भविनां सदा । जिनबिम्बप्रतिष्ठानविधिमाविष्करोम्यहम् ॥४॥ इह च प्रथममेव केचिदुत्सूत्रप्ररूपिणो यथाच्छन्दाः खात्मप्रत्यनीकाश्चिरपरिचितापारसंसारकान्तारसंचारविरहभीरवः सिद्धिसीमन्तिनीपरिरम्भयोग्य| भोग्यविकलाः कुगतिवनिताङ्गपरिष्वङ्गबद्धरङ्गाः स्वीकृतनिष्प्रपञ्चपञ्चमहाव्रतानां वतिनां प्रतिष्ठाकारत्वमुपवर्णयन्ति तदसंगतं, यतः प्रतिष्ठाकारस्येदं खरूपं निरूप्यते-यथा-न्हायविलितउ चंदणिण गंधसुगंधिअदेह। परिहाविअसिअसदसजुयल गुणगणरयणह गेह॥१॥ "तक्खणि दक्खिणि करि धरिअकंकणकडहसणाहु। सुंदरमुद्दारयणजुय दक्षिणकरतरुसाहु॥२॥ सुठ्ठ पइटाकार तहिं वणिजइ जय- ॥१५९॥ AP PARIA Jan Education International For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy