SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३ विश्रामे ॥ १५८॥ | रितवाण प्रहतो विगतपक्षोऽसमर्थः च्युतप्राणो वा भवति, तथा त्वदनुमानपक्षी तीर्थप्रेरितानुमानशरप्रहतो बोध्यः, यत एवं ततो| ऽस्माकम् - अस्मत्संबन्धी त्रैलोक्यपूजाकारणत्वादितिहेतुषाणो जयतु, किंलक्षणः १ - सिद्धान्तपक्षयुक्तः - अनेकप्रतिष्ठाकल्पादिप्रवच - | नानुयायी, अपरोऽपि बाणः सिद्धाः परिकर्म्मणा संस्कृताः येऽन्ता - अन्तिमावयवास्तेषु पक्षाः पतत्राणि यत्र स तथा, पतत्रमन्त| रेण बाणस्याप्यगतेः, त्वदनुमानपक्षिहन्ता सिद्धान्त क्षयुक्तोऽस्मदीयो बाणो जयत्विति समुदायार्थः ||४३|| इति चन्द्रप्रभाचार्य| तिलकाचार्यविरचितान्यनुमानानि हेत्वाभासग्रस्तानि न श्रावक प्रतिष्ठाव्यवस्थापनाय समर्थानीति ज्ञापयित्वा साधुप्रतिष्ठाव्यवस्थापना| यानुमानानि आगमसम्मतयश्च प्रदर्शिताः।। अथ कालानुभावात् केषांचिन्मतिमांद्यातिलकाचार्यकृतप्रतिष्ठा कल्पमालोक्य शङ्कोत्पद्यते तत्पराकरणाय गाथामाह जो पुणतिलगायरिओ कुवकुखमुखो मयाणुराएण । लविओ कप्पाभासे अमुणंतो धम्मपरमत्थं ॥४४॥ यः पुनस्तिलकाचार्यः कुपक्षमुख्यो नहाऽज्ञानान्धः स्वमतानुरागेण खमतदाढर्थहेतवे एव ग्रन्थकर्तृत्वाच्छेषकुपाक्षिकापेक्षया प्रसिद्धः, | यद्वा कुपाक्षिकाणां मध्ये मूर्खः, मूर्खत्वं प्रतिष्ठा कल्पादिग्रन्थरचनायां स्वयमनुमानादिप्रयोग करणाशक्तः परकृतानामनुमानप्रयोगाणां |दूषणभूषणान्यजानन्नेव राकामताकर्षकचन्द्रप्रभाचार्येण क्रोधाविष्टेन श्रावक प्रतिष्ठाव्यवस्थापनायोद्भाविता ये हेत्वाभासास्तानेवान्ध| युद्धवन्निजचातुर्याविष्करणाय निजकृतितयाऽलिखिष्य तर्हि मूर्खत्वमप्यस्य नाज्ञास्यद्, यतः - 'मुकखो ताव महग्घो मोणं काऊण सयलमज्झमि । जाव न खसरखसप्पुसच्वः फुप्फुसखसफसं कुणइ || १ | "त्ति, नचैवं विपश्चितां गतिः, यदास्माकीनेन पूर्वजेन क्रोधाना| भोगादिना परवशीभूतेन यत्किचित्कृतं कारितं प्रकाशितं वा तत्सर्व्वमपि प्रमाणीकृत्य विपश्चित्पर्षदि व्यवस्थाप्यते, तद्व्यवस्थापने Jain Education International For Personal and Private Use Only तिलकीयः कल्पाभासः ।। १५८।। www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy