SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ तिलकानुमानवाया श्रीप्रवपनपरीक्षा विश्रामे ॥१५७॥ DINARISHIDARSHAIRATHORAH तिलकाचार्योदावितस्यानुमानस्य तद्विपरीतसाधकं तत्प्रतिपक्षभूतमनुमानमाह जिणपडिमाण पइठ्ठा कायवा मुनिगुरूहिं जगसक्खं । तेलुकपूअकारणभावा गणहरपइहव्व ॥४२॥ जिनप्रतिमानां प्रतिष्ठा जगत्समक्षं मुनिगुरुभिः कर्तव्या,अनापवादिकत्वे सति त्रैलोक्यपूजाकारणभावात् त्रैलोक्यपूजाहेतुत्वागणधरप्रतिष्ठावद्-गणधरपदस्थापनावदित्यनुमानप्रयोगः, व्याप्तिग्रहस्त्वेवं-यद्यत्रैलोक्यपूजाकारणं तत्तन्मुनिगुरुणैव विधेयं, यथा गणधरपदप्रतिष्ठा, तत्र हेतुसाध्ययोद्धयोरपि सच्चात् , प्रकृतसाध्यसिद्ध्यर्थ मुनिगुरु:-मूरिः दृष्टान्ते तीर्थकृदिति, न पुनर्मूहिकृत्यं त्रैलोक्यपूज्यत्वहेतुर्भवति, यत्तु क्वचिच्चरितानुवादे तथा दृश्यते तदिव्यानुभावाद्यात्मकमौपाधिकमेवावगन्तव्यं, दिव्यानुभावस्तु विधिवादे विचारक्षोदक्षमो न भवति,यथा अविरतदेवतापितलिङ्गः साधुलिङ्गधारी कश्चित् साधुखैलोक्यस्याप्याराध्यो भवति, न तथा द्वादशव्रतधारकश्रावकापितलिङ्गात्साधुः स्यात्, तथाऽनादिसिद्धजगत्स्वभावात् ,जगत्साक्षिकमितिपदेन प्रतिष्ठाकृत्यं न रहोवृत्या विधेयं, किंतु राजामात्यादिसमस्तमहर्द्धिकजनसमक्षं,यतः समस्तजनसाक्षिकं प्रतिष्ठाकृत्यं समस्तस्यापि लोकस्याराध्यत्वेनाभिमतं स्यात् , तत्रापि साधुना कृतमविवादेनैव समस्तानामपि सम्मतं, साधोः समस्ताभिमतत्वादितिगाथार्थः ॥४२॥ अथ सत्प्रतिपक्षितं तिलकाचार्योद्भावितमनुमानं कीदृशं जातमित्याहपडिवक्खऽणुमाणसरप्पहओ तुह हेउसउणि गयपक्खो। सिद्धंतपक्खजुत्तो हेउसरो जयउ अम्हाणं ॥४३॥ प्रतिपक्षानुमान-परोद्भावितानुमानसाध्याद्विपरीतसाधकानुमानं तदेव शरो-बाणस्तेन प्रहत:-आहत'तुहे'ति-हे तिलकाचार्य! तव त्वदीयो हेतुः सावद्यत्वादितिरूपस्तद्रूपः शकुनिः-पक्षी, किंलक्षणो?-तपक्षः-छिन्नपक्षो जातः, अन्योऽपि पक्षी परप्रयोगप्रे ATAINumanitUTIANRAIN Jan Education Interno For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy