________________
M
ANTIHAR
श्रीप्रवबनपरीक्षा ३विश्रामे ॥१५६॥
AHITIMAHANIHIGHIMIRCHIRAINRI
तसाद् यदि यथेत्यध्याहार्य यथा महाव्रतेषु अणुव्रतादिगृहिधर्मः संक्रन्तस्ता-तर्हि तथेत्यध्याहार्य तथा पञ्चममहाव्रते पूजा | तिलकाकिं न संक्रान्ता?, अपितु संक्रान्तेत्यर्थ इतिगाथार्थः ॥४०॥ अथ द्रव्यपूजा यथा पश्चममहाव्रते संक्रान्ता तथा दर्शयन्नाह
चार्यखंडनं ___आणाइ दव्वपूआ दव्वच्चाएण देसरूवेण । सो सब्वदब्वचाए जिणआणाए समोअरई ॥४१॥
द्रव्यपूजा हि दिव्यकुसुमचन्दनादिद्रव्यसमुदायसाध्या, सा चाज्ञया देशरूपेण द्रव्यत्यागेन भवति, देशतो द्रव्यव्ययेनैव । स्थादित्यर्थः, आज्ञाऽपि तीर्थकृदुपदेशरूपा,न पुनः कुसुमादिद्रव्यव्ययमात्रेण, उत्सूत्रभाषिणामपि तीर्थकृत्पूजाकृतिप्रसक्तेः, नचैवं, यतो द्रव्यपूजा हि भावपूजाकारणं-भावस्तवहेतुः, भावस्तवो हि चारित्रं, यदुक्तं-"जिणभवणविंबठावण जत्ता पूआ य सुत्तओ विहिणा । दवत्थउत्ति णेअं भावत्थयकारणत्तेणं ॥१॥ इतिपञ्चाशके (२४७) तच्चोत्सूत्रभाषिणामनन्तेनापि कालेन दुरापम् ,अनन्तकालस्थितिहेतुस्तु कुपाक्षिकाणां पूजापि भगवति उत्सूत्रसंयुक्ता,आस्तां कुसुमादिपूजा,प्रव्रज्याऽप्यनन्तसंसारहेतुस्तथावस्तुखभावाद्, युक्तयस्तु प्रथमविश्रामे तीर्थस्वरूपव्यवस्थापनावसरे दर्शिता, एतच जमाल्यादीनामेवेति प्रवचने प्रतीतमेतत् , कुमतं हि क्रियाबलेन बर्द्धते इति पूजादिक्रियैव चैषामन्येषां वाऽनुमोदनादिविषयत्वेनानर्थहेतुरपि, तस्मात्कुमतं यथार क्रियाशिथिलं तथा२ प्रवचनस्य तस्य च हितमेवेति मतिमता मन्तव्यं, स देशतो द्रव्यत्यागः, सर्वद्रव्यत्यागे "सवाओ परिग्गहाओ वेरमण"मितिजिनाज्ञयैव सर्वपरिग्रहत्यागात्मके पश्चममहाव्रते समवतरति, अयं भावः-यदि साधूनां कुसुमादिद्रव्यस्तवो निर्जराङ्गमभविष्यत्तर्हि सर्वज्ञाः सर्वपरिग्रहत्यागं साधूनां नाकारयिष्यन् ,कारितवन्तश्च सर्वपरिग्रहत्यागं साधूनामतः सर्वपरिग्रहत्यागान्तभूतोऽपि द्रव्यस्तवः पृथक क्रि| यमाणस्तीर्थकृदाशातनवाज्ञाबाह्यत्वादितिगाथार्थः ।।४१॥ अथ प्रतिमाप्रतिष्ठा श्रावकेणैव कर्त्तव्या सावद्यत्वा व्यस्तवपूजादिवदिति ॥१५६।।
THALILARAM
INTAINTIMAmethinान
Iain Education Intel
For Personal and Private Use Only
www.jainelibrary.org