________________
श्रीप्रवपरीक्षा ३ विश्रामे ॥१५५॥
G
| इति स्थानाङ्गे चतुर्थस्थानके तृतीयोदेशके, अत्र चतुर्थे भङ्गे जिनकल्पिकः, स च वैयावृत्यं न करोति न वा प्रतीच्छतीति, तथा द्विती| यभंगे स्थविरकल्पिका अप्याचार्यग्लानादयो, वैयावृत्यं प्रतीच्छन्ति न कुर्वन्तीति, अत एवावश्यकनिर्युक्तावपि, व्याख्येयव्याख्यानयोरभेदात् नियुक्तिशब्देन तद्वृत्तिग्रह्या, अस्ति च तत्रेच्छाकारसामाचारीवर्णने इयं गाथा "एएहिं कारणेहिं तुंबी भूओ अ होइ आयरिओ । वैयावच्चं न करे कायवं तस्स सेसेहिं ॥१॥ति, एवमभ्युत्थानवन्दन सत्कारसन्मानपृच्छाप्रतिपृच्छाव्याकरणादिष्वपि योज्यं, तस्माजिनाशैव केवलं प्रमाणं, नान्यत्किमपि, परस्परं वैयावृत्यादेरपि सावद्यत्वापत्तेरितिगाथार्थः ॥ ३८ ॥ अथ पूजायाः सावद्यत्वस्वीकारेऽतिप्रसङ्गरूपदोषमाह -
अण्णह सा साहूणं पूआ अणुमोअणोबएसेहिं । णो जुत्ता जं तेसिं सावज्जं सङ्घहा हेयं ||३९|| अन्यथा पूजायाः सावद्यत्वस्वीकारे श्रावकैः पुष्पादिना विहिता सा पूजा साधूनामुपदेशानुमोदनाविषयो न स्याद्, यतः कारणात्तेषां साधूनां सावद्यं - सपापमनुष्ठानं सर्वथा - सर्वप्रकारेण “सवं सावज्जं जोगं पच्चकखामि" इत्यादिवचोभिः मनोवाक्कायकतकारितानुमतिभिर्हेयं-त्याज्यं वर्त्तते, नहि साधवः सावद्यमुपदिशन्ति, न वाऽनुमोदन्ते, अब्रह्मसेवादेरप्युपदेशादिविषयत्वापत्तेः, | न चायं दोषः सारम्भपक्षेऽपि भविष्यतीतिशङ्कनीयम्, आरम्भस्यानन्यगत्या पूजाकारणत्वाद् अवद्यस्य च तथा स्वभावाभावात्, तस्मात् सत्यप्यारम्भे तज्जन्यफलाभावात् पूजाया निरवद्यतैव, साधोः स्वयं कर्त्तव्यतानिषेधे तु युक्तिरुक्ता, वक्ष्यतेऽनन्तरमितिगाधार्थः ||३९|| अथोपसंहरनेव साधुकर्त्तव्यतानिषेधे युक्तिमाह
तमहा महव्वसुं संकंतोऽणुव्वयाइगिहिधम्मो । जइ संकंता पंचममहत्वए किं न ता पूआ ||४०||
Jain Education International
For Personal and Private Use Only
तिलकाचार्यखंडनं
1184411
www.jainelibrary.org