________________
श्रीप्रवपरीक्षा
विश्रामे
॥१५३॥
यद्यपि किश्चिदारंभो द्रव्यतो दृश्यते तथाऽपि शुभाध्यवसायान्महती निर्जरा महांश्च पुण्यप्रकृतिबन्धो भवति, यस्तु द्रव्यतः कि ञ्चिदारम्भजन्योऽल्पीयानशुभबन्धः स चाल्पतरत्वाद्व्यक्त्या तञ्जन्यफलानुदयात् तत्कर्मवर्गणानामतिरूक्षत्वेन तत्क्षणादेव विलयाच्च न विवक्ष्यते, अत एव किञ्चित्सारम्भोऽपि जिनपूजालक्षणो द्रव्यस्तवो जिनैः श्रावकाणामनुज्ञातः, यदागमः- “ अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे दबथए कूवदिट्ठे तो ॥ | १ || "त्ति श्रीआव० नि० (आ० भा० १९६) ननु तर्हि | द्रव्यस्तवे कूपदृष्टान्तो न युक्तः, तत्र कूपखननानन्तरमेव जलनिर्गमे मलापगमः, अत्र पूजां कुर्वत एवारम्भसंभवमालिन्यापगम इति | चेत्, मैवं, कूपखननजनितं मालिन्यं कूपजलेनैवापनीयते इत्येवंरूपेण देशत एव दृष्टान्तात्, नहि दृष्टान्तदाष्टन्तिकयोः सर्वधर्मसाधर्म्य केनापि दृष्टं श्रुतं वा, तथा जगद्वयंवहाराभावाद्, अन्यथा द्वयोरेकत्वापच्या उपमानोपमेययोरेव हान्यापत्तेः, तस्माच्छ्रावकधर्मः सावद्य इति निष्ठुरवचनं न वक्तव्यं, किंतु सारम्भः श्रावकधर्म इति वक्तव्यं, निरारम्भश्व श्रवणधर्म इति, अत एवागमे “दुविहे धम्मे पण्णत्ते, तं०- अगारधम्मे अणगारधम्मे"त्ति, न पुनः 'सावजधम्मे निरवजधम्मे' त्ति पाठः, यत्तु क्वचिद्रव्यस्तवे सावद्यत्वव्यपदेशः स | द्रव्यतः किञ्चिदारम्भजन्यरूक्षाल्परजः स्पर्शलक्षणमालिन्यनिर्देशपरो, न तु नरकादिगतिभोग्य तकनिर्देशपरोऽपि, ननु त्रिविधत्रिविधप्रत्याख्यानवतां साधूनां सारम्भो द्रव्यस्तवः कथमनुमोदनीयः ?, तद्गतारम्भस्याप्यनुमोदनापत्तेरितिचेत्, मैवं, सामायिकादिश्रावकधर्ममात्रस्याप्यननुमोदनीयत्वापत्तेः कृतसामायिकादीनामप्युद्दिष्टभोजित्वेनारम्भकलुषितत्वात् तस्मात्साधूनां तद्गतारम्भो नानुमोदनाविषयः, किंतु तज्जन्यः श्रावकधर्म एवेतिगाथार्थः ||३५|| अथ कुसुमादिपूजायाः वस्तुगत्या सावद्यत्वाभावेन साधुकर्त्तव्यतया कथं नानुज्ञेति पराशङ्कामुद्भाव्य तिरस्कुर्वन्नाह -
Jain Educationa International
For Personal and Private Use Only
तिलकाचार्य खंडनं
।। १५३ ।।
www.jainelibrary.org