________________
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१५२॥
तिलकापायखंडन
तिलककल्पः, इदं विवादापन प्रतिष्ठाकृत्यं साबद्यत्वेन हेतुना श्रावककृत्यं, प्रयोगस्त्वेवम्-प्रतिष्ठा श्रावककृत्यं सावद्यत्वाजिनपूजावदिति साधयन् आत्मनो, वा एवार्थः, आत्मन एव मूढचक्रित्वं-मूढचक्रवर्तित्वं,एवाध्याहार्यः, मूर्खचक्रवर्शित्वमेव साधयतीतिगा- थार्थः ॥३३।। अथ तिलकस्य मूर्खचक्रित्वमेव दर्शयितुमतिप्रसङ्गमाह
जं जं सावलं तं जइ सड्ढेणं हविज कायवं । ता मुणिघायप्पमुहा महासवा तस्स जिणआणा ॥३४॥
सापद्यत्वेन हेतुना श्रावककृत्यत्वे साध्यमाने, व्याप्तिग्रहस्त्वेवं-प्रतिष्ठा श्रावकेणैव कर्तव्या, सावद्यत्वाद् , यद्यत् सावधं तद्यदि |श्रावकेणैव कर्त्तव्यं भवेत् 'ता' तर्हि मुनिघातप्रमुखा महाश्रवाः-सावद्याः श्रावकस्यैव जिनाज्ञा भवेत् , यतो मुनिघातोत्सूत्रप्ररूपणदेवद्रव्यापहारसंयत्यब्रह्मसेवाप्रवचनोड्डाहादयो महाश्रवाः, इतराश्रवापेक्षया महापापहेतुत्वाद्, यदागमः-"चेइअदबविणासे इसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे मूलग्गी बोहिलाभस्स ॥१॥"त्ति (उपदेशपद.४१५) तेषु सावद्यत्वस्य हेतोः सन्चात्, श्रावकेणैवेत्येवकारेण नियमाच्छ्रावककर्त्तव्यतापत्तौ जिनाज्ञा भवेत् , तथा च तव मतेऽनार्यकर्त्तव्यताया दत्ताञ्जलितैव, अथ महाश्रवाः श्रावककृत्यं न भवतीतिचेत्तर्हि तत्र हेतोः सत्वात्साध्याभावाच्च व्यभिचारातिसाररोगग्रस्तो हेतुरपवित्र इति गाथार्यः॥३४॥ अथ कुसुमादिजिनपूजा दृष्टान्ततया तेनोपन्यस्ता, तत्र सावद्यत्वादिति हेतुर्नास्तीतिप्रदर्शनाय प्रथमं जिनपूजाया अमिलापः कीदृशः कर्त्तव्य इत्याह
तत्तविआरे पूआ सावजत्ति अनिठुरं वयणं । सारंभो गिहिधम्मोऽणारंभो समणधम्मो अ॥३५॥ तस्वविचारे-वस्तुगत्या विचारे कुसुमादिजिनपूजायां सावद्यतया निर्वचनं तनिष्ठुरं वचनम् , अनुचितभाषणमित्यर्थः, यतो|
For Person
Prive
Only