SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥१५२॥ तिलकापायखंडन तिलककल्पः, इदं विवादापन प्रतिष्ठाकृत्यं साबद्यत्वेन हेतुना श्रावककृत्यं, प्रयोगस्त्वेवम्-प्रतिष्ठा श्रावककृत्यं सावद्यत्वाजिनपूजावदिति साधयन् आत्मनो, वा एवार्थः, आत्मन एव मूढचक्रित्वं-मूढचक्रवर्तित्वं,एवाध्याहार्यः, मूर्खचक्रवर्शित्वमेव साधयतीतिगा- थार्थः ॥३३।। अथ तिलकस्य मूर्खचक्रित्वमेव दर्शयितुमतिप्रसङ्गमाह जं जं सावलं तं जइ सड्ढेणं हविज कायवं । ता मुणिघायप्पमुहा महासवा तस्स जिणआणा ॥३४॥ सापद्यत्वेन हेतुना श्रावककृत्यत्वे साध्यमाने, व्याप्तिग्रहस्त्वेवं-प्रतिष्ठा श्रावकेणैव कर्तव्या, सावद्यत्वाद् , यद्यत् सावधं तद्यदि |श्रावकेणैव कर्त्तव्यं भवेत् 'ता' तर्हि मुनिघातप्रमुखा महाश्रवाः-सावद्याः श्रावकस्यैव जिनाज्ञा भवेत् , यतो मुनिघातोत्सूत्रप्ररूपणदेवद्रव्यापहारसंयत्यब्रह्मसेवाप्रवचनोड्डाहादयो महाश्रवाः, इतराश्रवापेक्षया महापापहेतुत्वाद्, यदागमः-"चेइअदबविणासे इसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे मूलग्गी बोहिलाभस्स ॥१॥"त्ति (उपदेशपद.४१५) तेषु सावद्यत्वस्य हेतोः सन्चात्, श्रावकेणैवेत्येवकारेण नियमाच्छ्रावककर्त्तव्यतापत्तौ जिनाज्ञा भवेत् , तथा च तव मतेऽनार्यकर्त्तव्यताया दत्ताञ्जलितैव, अथ महाश्रवाः श्रावककृत्यं न भवतीतिचेत्तर्हि तत्र हेतोः सत्वात्साध्याभावाच्च व्यभिचारातिसाररोगग्रस्तो हेतुरपवित्र इति गाथार्यः॥३४॥ अथ कुसुमादिजिनपूजा दृष्टान्ततया तेनोपन्यस्ता, तत्र सावद्यत्वादिति हेतुर्नास्तीतिप्रदर्शनाय प्रथमं जिनपूजाया अमिलापः कीदृशः कर्त्तव्य इत्याह तत्तविआरे पूआ सावजत्ति अनिठुरं वयणं । सारंभो गिहिधम्मोऽणारंभो समणधम्मो अ॥३५॥ तस्वविचारे-वस्तुगत्या विचारे कुसुमादिजिनपूजायां सावद्यतया निर्वचनं तनिष्ठुरं वचनम् , अनुचितभाषणमित्यर्थः, यतो| For Person Prive Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy