SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवपरीक्षा ३ विश्रामे ।।१५०॥ सचित्तवित्तजणिओ दवथओ जो हविज्ज जावंतो । सो सड्ढाणमणुमओ सङ्घपयारेण सवोऽवि ॥२८॥ चेइअवेयावचं उबएसणुमोअणेहिं साहूणं । पायं जिणिंदर्भाणिअं न सयंकरणेण सड्दुव ॥ २९ ॥ सच्चितं - पृथिव्यादिवनस्पतिपर्यन्तं सुवर्णचन्दनादिकं प्रासादप्रतिमादिनिर्माणहेतुभूतं वस्तुजातं वित्तं द्रविणं सौवर्णिकादि घनं ताभ्यां जनितो यावान् - यो द्रव्यस्तवो भवेत् स श्राद्धानां सर्वोऽपि, अमुको द्रव्यस्तवः श्राद्धजातीयानां नोचित इत्येवंवचनस्याप्यसंभवात् सकलोऽपि 'सर्वप्रकारेण' मनोकायकृतकारितैः अनुमतः - अनुज्ञातः श्रावकधर्मे युक्त इत्येवंरूपेण तीर्थकृतोपदिष्टः, तस्मा|च्छावकधर्मे द्रव्यस्तवो महानिति गाथार्थः ||२८|| अथ साधुधर्मे द्रव्यस्तवोऽल्पः कुत इत्याह- 'चेइअ ०' व्याख्या - चैत्यवैयावृत्यमुपदेशानुमोदनाभ्यां साधूनां प्रायो - बाहुल्येन, प्रायोग्रहणात्कारणविशेषे क्वचिदौचित्येन कृतिरूपेणापि जिनेन्द्रभणितम्, औपचारि | कचिनयलक्षणो द्रव्यस्तवस्तु प्रागुक्त एव, न पुनः श्राद्धवत् सर्वः सर्वप्रकारेणेति खल्पत्वं द्रव्यस्तवस्येति गाथार्थः॥२९॥ अथ परः शंकतेणणु निरवज्जो वासो पूआ तेणेव किं न साहूणं ? । तंपि अ पमाणमम्हं जइ जिणआणापइव ||३०|| आ पट्ठिआणं पडिमाणं पूअणंति बुद्धीए । सा वीरेण निसिद्धा लिंगीण महानिसीहंमि ॥ ३१ ॥ बासः - चन्दनचूर्ण निरवद्यस्तेन वासेन हेतुभूतेन साधूनां पूजा किं न १, कथं न भवतीत्यर्थ इतिपूर्वपक्ष:, यथालिङ्गितमेवोत्तरमाह - 'तंपि 'त्यादि तंपि अस्माकं प्रमाणं - सम्मतमेव, यदि प्रतिष्ठावज्जिनाज्ञाऽभविष्यत्, यथा प्रतिष्ठा साधुना कर्त्तव्येत्यादिरूपेण जि| नाज्ञा प्राग् दर्शिता तथाऽचिचवासेन जिनप्रतिमामपि साधुः पूजयेदिति जिनाज्ञा स्यात् सा च नास्तीति नासामिर्विधीयते, जिनाज्ञाया एवास्माकं प्रामाण्यादितिगाथार्थः ॥ ३० ॥ अथ निरवद्येनापि वासेन जिनपूजनं नोचितं तर्हि कथं जिनप्रतिष्ठाऽपीतिपराशंकामपाकुर्वनेव Jain Educationa International For Personal and Private Use Only द्रव्यस्तवभावस्तवौ ॥ १५०॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy