________________
जीवचनपरीक्षा ३ विश्रामे
॥१४९॥
न तथा सामायिकादिविराधनेऽपि तथा साधुचैत्यादिवन्दननिमित्तं साधुसाध्वी श्रावक श्राविकाः समुदायीभूय गच्छन्त्यागच्छन्ति च न तथा कञ्चनापि पौषधिकं प्रतिमाधरं श्रावकमुद्दिश्यापि, अतो ज्ञायते श्रावकधर्मे चैत्यादिविधापनं महत्कार्यमिति पर्यालोच्य न स्थूलधिया भवितव्यं, न चैवं चैत्यादिविषयकः सर्वोऽपि विधिः पौषधाद्यपेक्षया महानितिशङ्कनीयं, सत्यपि गृहचैत्यचिन्तादिकारके पुत्रादौ प्रतिदैवसिकाचारमात्रभूतजिनपूजादिनिमित्तमपि पौषधपरित्यागे पाक्षिकादिनियतमौषधमात्रस्याप्युच्छे| दापत्तेः, तस्माद्यो द्रव्यस्तवः प्रवचनप्रभावनाहेतुः बहुद्रव्य बहुकालसाध्यः तदर्थं सामायिकादिपरित्यागो युक्तः, न पुनस्तदितर| द्रव्यस्तवार्थमपि, लोकेऽपि स्वभावतोऽनुत्तममपि मूल्यत उत्तमं गद्याणकसहस्रप्रमाणं यद्रजतं तन्निमितं स्वभावत उत्तममपि मूल्यतोऽनुत्तमं माषप्रमाणं सुवर्ण परित्यजन्तो दृश्यन्ते, न पुनः सार्द्धमाषप्रमाणरजतनिमित्तं माषप्रमाणं सुवर्णमपि कोऽपि त्यजति, स्वरूपमूल्याम्यामप्युत्तमत्वात्, परम्पराया अपि तथैव दृश्यमानत्वादित्यलं प्रपञ्श्चेनेति गाथार्थः ॥ २६ ॥ अथ साधूनां द्रव्यस्तवोऽल्पो भूयांथ भावस्तव इति प्रदर्शयन् दृष्टान्तमाह
भावथा ववथओ सहावसिद्धो सरूवलहुकंतो । कणगगयरययलोअणकप्पो अप्पोऽवि मुणिधम्मे ||२७|| साधुधर्मे - साधुमार्गे भावस्तवात् द्रव्यस्तवः स्वभावसिद्धो, न पुनरौपाधिकः, स्वखरूपेणाल्पतरो वा, अल्पोऽपि -किंदृष्टान्तगम्य इत्याह- 'कणगगये' त्यादि, कनकमयगजस्य सर्वात्मना सौवर्णमयहस्तिनो रजतलोचनकल्पः, साधोः सर्वविरतिलक्षणो धर्मो द्रव्यस्वबभावस्तवाभ्यां विभज्यमानो भावस्तवस्तावत् गजोपमया सुवर्णदेहप्रमाणः, द्रव्यस्तवस्तु रजतलोचनप्रमाण इति गाथार्थः ॥ २७ ॥ अथ श्रावकधर्मे द्रव्यस्तवो महानल्पीयांश्च साधुधर्मे कथमिति गाथाद्वयेन दर्शयितुं प्रथमगाथामाह
Jain Educationa International
For Personal and Private Use Only
द्रव्यस्तवभावस्तनौ
॥१४९॥
www.jainlibrary.org