________________
द्रव्य
|भावस्तवा
श्रीप्रवचनपरीक्षा विश्रामे ॥१४॥
कं तु मूलत एवोच्छिन्नसंकथं भवेद् , आस्तामन्यत् , साधुदानादिकमपि विलीयेत, वस्त्रादिदानाद्यपेक्षया सामायिकमेकं सुखसाध्यं महाफलं चेति विमुच्य को मृढात्मा दानादौ प्रर्वतत ?, न च साधुदानाद्यपेक्षया सामायिकं बहुफलं न भविष्यतीति शङ्कापि विधेया, यतो देवा अपि तीर्थकरसाधुदानादिरञ्जिता 'अहो दानमहोदान'मित्यादिहर्षप्रादुर्भूतवचोभितारमभिष्टुवन्तः कोटिशः कनकवृष्टिप्रमुखाणि पश्च दिव्यानि कृतवन्तः, न तथा क्वापि कदाचिदप्येकस्यापि सौवर्णिकस्य मोचनं सामायिकादौ कृतवन्त इति स्वयमेव पर्यालोच्यं, किंच-प्रासादप्रतिमादयो हि साध्वादीनां मोक्षाध्वगानामध्वनि धर्मप्रपाः,तासां च व्युच्छेदे कोटिशो जनानां धर्मपिपासितानामनुपकारितया महापातकमिति तदनुत्साहोऽपि न कर्त्तव्यः, तस्मात् यथाशक्ति यथोचितं यथावसरं च परस्पराबाधया | सईमपि धर्मानुष्ठानमनुष्ठेयं, नच सामायिकाद्यपेक्षया प्रवचनप्रभावना गरीयसी न भविष्यतीति शङ्कनीयं, प्रवचनप्रभावनाहेतवे सामायिककरणाभावस्याप्यनुज्ञातत्वाद् , यदागमः-"सो सड्ढो दुविहो-इड्डिंपत्तो अणिढिपत्तो अ, जो सो अणिदिपत्तो सो चेइघरे साहुसमीवे घरे पोसहसालाए वा जत्थ वा वीसमइ अच्छति वा निछावारो सवत्थ करेइ सई, चउसु ठाणेसु नियमा कायई, | तंजहा-चेइयघरे साहुमूले पोसहसालाए वा घरे वा,आवस्सयं करेंतो'त्ति इत्यादि यावत् 'साहुसकिखअंसामातितं करेति-करेमि भंते ! | सामाइअं सावजं जोगं पञ्चक्खामि दुविहं तिविहेणं जाव साहू पज्जुवासामित्तिकाऊण, जइ चेइआई अस्थि तो पढमं वंदति,साहूणं
सगासाओ रयहरणं निसिजं वा मग्गति,अह घरे तो से उग्गहिरयहरणं अत्थि, तस्स असति पोत्तस्स अन्तेण,पच्छा इरिआवहिआए | पडिक्कमइ, पच्छा आलोइत्ता वंदति आयरिआदी जहारायणिआएत्ति,पुणोऽवि गुरुं वंदित्ता पडिलेहित्ता निविठ्ठो पुच्छति पढइ वा, एवं चेइएसुवि, असइ साहुचेइआणं पोसहसालाए सगिहे वा,एवं सामाइअं आवस्मयं वा करेति,तत्थ नवरि गमणं नत्थि, भणइ जा
Sugi-
॥१४४॥
A
Jan Education
For Personal and Private Use Only
www.jainelibrary.org