________________
NDI
ALS
द्रव्य.
भावस्तवा
श्रीप्रवबनपरीक्षा ३विश्रामे ॥१४३॥
Aam
DURATI.HDHI
PRITIALAI NAUpailu
न पुनरौपाधिकः, अल्पोऽपि भावस्तवः पुनः कीदृशः?-'स्वरूपबहुकान्तः' स्वरूपेण-वस्तुस्वभावेन बहुकान्तः-अतिशयेन मनोहर ,द्रव्यस्तवापेक्षयाऽतिसुन्दर इत्यर्थः,अथ द्रव्यस्तवभावस्तवयोरल्पानल्पत्वज्ञापनाय दृष्टान्तमाह-'रययामए'त्यादि,रजतं-रूप्यं तन्मयः-तनिष्पनो यो गजो-हस्ती तस्य काश्चननयनं-सुवर्णमयलोचनं तद्वत् , रूप्यमयहस्तिनो हेममयलोचनकल्पो भावस्तवः श्रावकाणामित्यर्थः, अयं भावः-देशविरतिलक्षणो धर्मस्तावद्गजतुल्यः, स च द्रव्यस्तवभावस्तवाभ्यां विभज्यमानो रजतशरीरतुल्यो द्रव्यस्तवः, भावस्तवः पुनः काञ्चनलोचनसदृशः, काञ्चनलोचनमपि न सर्वात्मना, किंतु काञ्चनरसरसितत्वेन काञ्चनलोचनमि| वावभासमानं ग्राह्यम् , अन्यथा साधुश्रावकधर्मयोरल्पतरमेवान्तरं स्याद्, विद्यते च महद् , एवं च सति यद्यपि स्वभावतः |
सुवर्णमतिसुन्दरं भवति तथाप्युक्तदृष्टान्तरीत्या नयनप्रमाणं सुवर्ण गजशरीरतुल्यस्य रजतपुञ्जस्य मूल्यं न लभते, तस्मात्स्व| भावत उत्तमत्वेऽपि मूल्यमाश्रित्यानुत्तमत्वमेव, खल्पत्वाद् , एवं श्रावकधर्मे बहुवित्तव्ययायाससाध्यप्रासादप्रतिमाप्रतिष्ठायात्रा| साधम्मिकवात्सल्यादिलक्षणो द्रव्यस्तवो भूयस्त्वात् प्रवचनोत्सर्पणादिहेतुत्वादन्येषां चाभिन्नग्रन्थिकानामनुमोदनादिना ग्रन्थिभेद| हेतुत्वाद्भिनग्रन्थिनां चोत्साहप्रवर्द्धनेन बोधेनॆर्मल्यहेतुत्वात्पूज्यपूजाप्रवृत्तिहेतुत्वाद्धर्मानभिमुखीभूतानामपि धर्माभिमुखीकरणहेतुत्वा|दित्याद्यनेकहेतुभिर्यथा सुगतिसाधको भवति न तथा सामायिकादि, यतः सामायिकेऽपि साध्वनुकृतिमात्रेणैव भावस्तवत्वात् स्वभावत उत्तमत्वेऽप्यल्पत्वादल्पप्रयाससाध्यत्वादल्पर्द्धिकप्रभृतिभिरपि कर्तुं शक्यत्वाच्च, नचैवं सामायिकादिकरणे निरुत्साहता भविप्यतीतिशङ्कनीयं, यतो महति प्रासादादिद्रव्यस्तवे सामर्थ्याभावाद्यदि सामायिकादिकमपि न करोति तर्हि तेनापि वश्चितः सन्नुभयभ्रष्टो भवति, किंच-यदि सामायिकादावुत्साहप्रवृद्ध्यर्थ प्रासादाद्यपेक्षया सामायिकादौ भूयान् लाभ उपदिश्यते तर्हि प्रासादादि
HITIANILEANI
॥५३॥
Jan Educationa internate
For Personal and Private Use Only
www.jainelibrary.org