SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥१४॥ पनामा Humatism RANAPANNAPURNIMADIRAL MEDIA , int e r द्वावपि स्तवौ-द्रव्यस्तवभावस्तवावन्योऽन्य-परस्परं सापेक्षौ, भावस्तवो द्रव्यस्तवं विहाय न केवलः कापि तिष्ठति, न वा ॥ द्रव्यद्रव्यस्तवः केवलो भावस्तवं विहाय क्वापि तिष्ठति, किंतु सामानाधिकरण्येन द्वावपि तिष्ठतः, तथा च साधुश्रावकयोः साम्यं मा भावस्तवौ | भवत्वित्याह-श्रावकाणां बहुद्रव्य इति-भूयान् द्रव्यस्तवोर्थात् स्वल्पो भावस्तवः,साधूनां बहुभावो-भूयान् भावस्तवोऽर्थादल्यो । द्रव्यस्तवः, व्यवहारो बहुस्तवाद्-व्यवहारप्रवृत्तिः पुनर्यो यत्र भूयान् तदनुसारेणैव बोध्या, तेन श्रावकधर्मो द्रव्यस्तवात्मको | भावस्तवात्मको यतिमार्ग इति नोपदेशमालावचनविरोध इति गाथार्थः ॥१९॥ अथ बहुधर्मानुसारेण व्यवहारे दृष्टान्तमाहजह सावयाण धम्मो सवो आरंभकलुसिओवि तहिं । सामइअंभावथओ इअरो दब्बुत्ति ववहारो ॥२०॥ __यथा श्रावकाणां धर्मः सर्वोऽप्यारम्भकलुषितः-आरम्भाध्यवसायमलिनस्तत्रापि सामायिकं भावस्तव इतरो-जिनभवनजिन| बिम्बादिनिर्मापणादिकुसुमादिपूजापर्यन्तो धर्मः 'दव'त्ति पदैकदेशे पदसमुदायोपचारात् द्रव्यस्तव इति व्यवहारो बहुत्वमधिकृत्यैव, | अयं भावः-यथा कुसुमादिपूजाध्यवसायो ह्यारम्भाध्यवसायकलुषितः तथा सामायिकाध्यवसायोऽपि धनधान्यपुत्रकलत्रादिममत्वभावयुक्तस्य अप्रत्याख्यातानुमत्यारम्भस्य सामायिकेऽप्युद्दिष्टभोजिनः श्रावकस्यारम्भाध्यवसायकलुषित एव,यदागमः-"कामी सघरंगणओ थूलपइण्णा सि होइ दट्टव्वा । छेअणभेअकरणा उद्दिटुकडंपि से मुंजे ॥१॥” इति श्रीनिशीथभाष्यम् ,एतच्चूर्णिरेवं-पंच | विसया कामेइत्ति कामी, गृहश्चाङ्गना च गृहाङ्गने सह गृहाङ्गनाभ्यां यः स सगृहाङ्गनकः, थूलपइण्णा-देसविरइत्ति वुत्तं भवति, साहूणं सबविरई, वृक्षादिच्छेदने पृथिव्यादिभेदने प्रवृत्तः, सामायिकभावादन्यत्र, जंच उद्दिढकडं तं कडसामइओबि झुंजइ, एवं ॥ स सर्वविरतो न भवति इति श्रीनिशीथचूर्णी उ० १५ पत्रे, (११-१५-२७५, २९१) एवं सर्वत्रापि साम्ये सत्यपि सामायिक ) ||१४१॥ For Person Prive Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy