________________
श्रीप्रवचनपरीक्षा विश्रामे ॥१४॥
श्रावकातिठाप्रतिषेधः
आदिशब्दात्सत्कारादिपरिग्रहः, उपपन्न-संगतं भवति-वर्तते यतेरपि-भावस्तववतो,न केवलं गृहिण एवेतिगाथार्थः। इति पंचा० वृत्ती,नचैवं पुष्पादिभिरपि साधूनां द्रव्यस्तवस्य कर्त्तव्यताऽऽपत्तिरितिशङ्कनीय,तथैव जिनाज्ञायाः सद्भावात् ,तथाकरणे च कृत्स्नसंयमस्य हानिः स्याद् ,एतच्च सविस्तर किश्चित् पंचाशके 'सक्खाउ' (२८४)त्ति गाथायामुक्तमस्ति ततो ज्ञेयमिति,इह तु विस्तरभयानोक्तं,द्रव्यस्तवस्य कारितत्वं तु उपदेशद्वारा प्रतीतमेव,एवं कृतकारितानुमतलक्षणस्य द्रव्यस्तवस्य क्वचित्कथञ्चित्साधुकर्चव्यतया सिद्धेर्यदि प्रतिष्ठाऽपि भावस्तवहेतुतया द्रव्यस्तत्वेनाभिमता तर्हि भवदुक्तयुक्त्या द्रव्यस्तववत्प्रतिष्ठाऽपि तदन्तर्गता साधुकक्यतयैव ज्ञेया, अन्यथा तीर्थसम्मताः श्रीहरिभद्रसूरिश्रीउमास्वातिवाचकप्रभृतयो महापुरुषाः निजकृतप्रतिष्ठाकल्पेषु मन्त्रन्यासादिविधि सूरिकर्त्तव्यतया कथमकथयिष्यन् ?, तीर्थकृदाज्ञामन्तरेण तथा कथने तेषां तीर्थबाह्यताऽभविष्यत् ,तथा च तत्कृता ग्रन्थास्तीर्थसम्मततया नाप्रवर्तिष्यन् , यथा कुपाक्षिकतिलकाचार्यकृतः प्रतिष्ठाकल्पः, नच तिलकाचार्यकृतावश्यकवृत्यादयोऽपि प्रवचन्ते इतिवाच्यं, प्रवचनपरमार्थविद्भिस्तत्कृतस्तिरस्कृतत्वात् , तिलकाचार्यकृतेः प्रामाण्ये 'भरतः स्वयं प्रतिष्ठितवा'निति 'धूभसयभाउआणं' (आव. मू. भा-४५) गाथाव्याख्याने भणितं, तच्चानागमिकमेव, तदभ्युपगमे च श्रीहरिभद्रसूरिप्रभृतिकृतीनामप्रामाण्यापच्या तीर्थमपि परिहरणीयं स्यात् , तस्मात् तीर्थतिलकाचार्ययोः परस्परं विपरीतप्ररूपिणोरेकतरपरिहारस्थावश्यकत्वात् तिलकाचार्यस्यैव परिहारः श्रेयान् प्रवचनविदामितिगाथार्थः॥१८॥अथ 'भावच्चणमुग्गविहारया येतिगाथायां श्रावकमार्गों द्रव्यस्तवो भावस्तवस्तु साधुमार्ग इति कथं नियतवाक्यमित्याशङ्कापरिहाराय गाथामाह
अण्णुण्णं साविक्खा दोवि थया सावयाण बहुदवो । बहुभावो साहणं ववहारो बहुथवा णेओ ।।१९।।
॥१४॥
Jan Educationa international
For Personal and Private Use Only