________________
श्रीप्रववनपरीक्षा
३ विश्रामे
॥१३७॥
'दवत्थउत्तिकाउं पट्ठकिच न साहुणो सम्मं । अण्णाणमूलमूलं वयणमिणं भणइ मूहमणो ॥ १५ ॥
द्रव्यस्तव इतिकृत्वा साधूनां प्रतिष्ठाकृत्यं न सम्यग् न युक्तमिति, इदं वचनं मूढमनाश्चन्द्रप्रभाचार्यो भणति, तद्वचनं की? - 'अज्ञानमूलमूलम्' अज्ञानमूलं - ज्ञानावरणीयं कर्म तस्यापि मूलं - मोहनीयं, तदप्यभिनिवेशरूपं मिथ्यात्वमोहनीयं बोध्यं सर्वे| पामपि कर्मणां मोहनीयमूलकत्वाद्, अज्ञानमूलमूलमिति अभिनिवेशमिध्यात्वमूलकमित्यर्थ इति गाथार्थः ॥ १५ ॥ अथ तथा वक्तुर्मूढत्वं कुत इत्याह
teresa समए पडिसिद्धो सङ्घहा न साहूणं । अणुमोअणाइरूवो काउस्सग्गे मुणीणपि ॥ १६ ॥
'समये' जिनशासने साधूनां द्रव्यस्तवः सर्वथा न प्रतिषिद्धः, यतोऽनुमोदनादिरूपः कायोत्सर्गे मुनीनामपि भणितः - वंदन| वत्तिआए पूअणवत्तिआए सक्कारवत्तिआए इति वचनैरनुमोदनालक्षणो द्रव्यस्तवः साधूनामप्यागमे भणितः, स च तेनाज्ञेन न ज्ञातः, न च द्रव्यस्तवोऽनुमोदनारूपो भावस्तवो भविष्यतीतिशङ्कनीयं द्रव्यस्तवोऽपि कृतकारितानुमतिभिर्विभजनीयः, तथा चानुमोदनारूपोऽपि द्रव्यस्तवो भवत्येव, अयं भावः केवलो द्रव्यस्तवः कस्यापि न संभवति, न वा केवलो भावस्तवोऽपि, किंत्वन्योऽन्यानुसमनुविद्ध एव यदुक्तं - "दवत्थयभावत्थयरूवं एअपि होइ दट्ठवं । अण्णुण्णसमणुविद्धं निच्छयओ भणिअविसयं तु ॥ १ ॥ (१२०९) इति पञ्चवस्तुके, तेन भव्यविधिना पुष्पादिकृतां जिनेन्द्रपूजामालोक्य तत्कर्तुरुत्साहप्रवर्द्धनार्थं पूजाजन्यफलप्राप्त्यर्थं च धन्योऽयं | जिनेन्द्रपूजाकर्तेत्यादिवचोभिरनुमोदनालक्षणोऽभितो द्रव्यस्तवः साधूनामपि, यदुक्तं - "जइणोवि हु - दवत्थय भेओ अणुमोअणेण अत्थिति । एवं च इत्थ णेअं इअ सुद्धं तंतजुतीए ॥१॥ (१२१०) इति 'तंतजुत्ती 'ति तंत्रयुक्या- सिद्धान्तयुक्या, तन्त्रयुक्ति
Jain Education International
For Personal and Private Use Only
श्रावकप्रति ठाप्रतिषेधः
१७
www.jainelibrary.org