SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव. चनपरीक्षा .mms श्रावकातिष्ठाप्रतिषेधः ३विश्रामे ॥१३॥ कार्या, प्रतिष्ठाकृत्यमपि सूरिश्रावकयोरन्यतरेण कर्तुमशक्यं,जघन्यविधावपि श्रावकानीतवासमन्तरेण प्रतिमानां मस्तके मन्त्रन्यासं च कुर्वन् दक्षिणकर्णे च किं प्रक्षिपति ?, आनीतमपि वासं सूरीणामपि जिनेन्द्रबुद्ध्याराधनीयानां जिनप्रतिमानां मस्तके कः प्रक्षिपति , न चैवं सामान्यसाधुकृता प्रतिष्ठा सूरेरप्रमाणं भविष्यतीति शङ्कनीयं, स्वहस्तदीक्षितसाधुरिव सामान्यसाधुदीक्षितसाधुरविशेषेण प्रमाणीभवन्निव स्वप्रतिष्ठितप्रतिमेव साधुप्रतिष्ठिताप्यविशेषेण प्रमाणमेवेतिप्रसिद्धेःन पुनर्महाकेनापि श्रावकेण दीक्षितः साधुः स्यात् ,एवं श्रावकप्रतिष्ठिताप्रतिमाऽपि प्राज्ञशेखरं चन्द्रप्रभाचार्य विहाय नान्यस्य कस्यापि प्रमाणं भवेदित्यादि नेत्रे निमील्य पर्यालोच्यमिति गाथायुग्मार्थः ।।८-९ ।। अथ सिंहावलोकनन्यायेन चन्द्रप्रभाचार्यस्याशङ्कामाहअह भावत्थयहेऊ दवथओ न य मुणीण सो जुत्तो। जपणं मुणीण मग्गो सिद्धफलो भावथयरूवो॥१०॥ अथ भावस्तवहेतुर्द्रव्यस्तवः, स च मुनीनां न युक्तः, यद्-यस्मात् ,णमित्यलङ्कारे, मुनीनां मार्गों भावस्तवरूपः 'सिद्धफल' | सिद्धं फलं द्रव्यस्तवस्य भावस्तवलक्षणं यस्य स तथेति गाथार्थः ॥१०॥ अथ मुनीनां मागों मावस्तवरूपः कुत इत्याह आरंभकलुसभावो कत्थवि नत्थित्थ पुण्ण जिणआणा। देसाणो सारंभो सावयधम्मो अदवथओ॥११॥ । ___अत्र-मुनिमार्गे कुत्रापि आरम्मेण-पृथिव्यादिविराधनया कलुषभावः-आविलस्वभावो नास्ति, तत्कुतो ?, यतो मुनिमार्गे जिनाज्ञा पूर्णा वर्णते, 'सबाओ पाणाइवायाओ वेरमण'मित्यादिरूपेण जिनोपदिष्टमार्गः, सर्वात्मना मुनिभिरङ्गीकरणात् , चः पुनः, 'श्रावकमार्गो द्रव्यस्तवः', कुतो?, यतः स 'देशाज्ञो' देशेन-अंशेनाज्ञा यत्र स तथा, तत्कुतो?, यतः सारम्भः पृथिव्याद्यारम्भाध्यवसायकलुषित इत्यर्थः, अयं भावः-जिनेन्द्रैरुत्सर्गतः साधुमार्ग एवोपदिश्यते, तत्राशक्तस्य 'थूलाओ पाणाइवायाओ वेरमणं' AMERITAM ARHIR A HEERIT.Immittarianhi. hem "HTINATHPANISHAIRAHAILIPARAN ॥१३॥ Jan Educationembon For Personal and Private Use Only www.jinyong
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy