________________
श्रावकातिठाप्रतिषेधः
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१३२॥
रहजत्तण्हवणपमुहं सावयकिच्चं सचित्तमाईहिं । जइ गणहरपयठवणा जिणिंददेविंदवावारा॥९॥ युग्मं
स्तुतिदानादयः पद गुरोरधिकारा जिनोपदिष्टाः। 'रहजत्ते'त्यादि, रथयात्रास्नपनप्रमुखमशेष शेष श्रावककृत्यं, तत्र हेतुमाह| 'सचित्ते'त्यादि प्रायः श्रावककृत्यं सचित्तादिभिर्द्रव्यैः स्यात् , तानि च साधूनां न स्पर्शविषयोऽपि, तथैव जिनाज्ञेति चोध्यं, अथोत्तरार्द्धन दृष्टान्तमाह-'जहे त्यादि, यथा गणधरस्य पदस्थापना 'जिनेन्द्रदेवेन्द्रव्यापारात्' तीर्थकद्देवेन्द्रक्रियाभ्यां भवति, न पुनः केवलेन तीर्थकृता, न वा शक्रेण, किंतु ?, उभाभ्यामेव, तत्र जिनेन्द्रकृत्यं निरवद्यं, शेषं तु देवेन्द्रादिसुरकृत्यं सचित्तादिद्रव्यसाध्यमपि, तथाहि-प्रथमसमवसरणे चन्दनकर्पूरादिसर्वोत्तमसुगन्धद्रव्यनिष्पन्नेन दिव्यवासेन वज्रमयं स्थालं भृत्वा कराभ्यामा|दाय देवेन्द्रः समायाति, भगवान् श्रीवीरस्तु रत्नसिंहासनादुत्थाय शक्रहस्तगतस्थालाद् घनतरनिविडां वासमुष्टिं भृत्वार क्रमस्थि| तगौतमादिमस्तकेषु "उपज्जए वा विगमए वा धुवए वा" इत्यनुज्ञात्रिकं कुर्वन् प्रत्येकं वासमुष्टिकं प्रक्षिपति, अन्ये च बहवो देवा | देव्यश्च भक्तिभरोल्लसितमानसा विस्मयोत्फुल्लनयनाः तीर्थकृद्गणधरादिदर्शनेनात्मानं धन्यं मन्यमाना दिव्यचन्दनादिसुगन्धवास| मुष्टिं जलस्थलसमुद्भूतदिव्यकुसुमवृष्टि च गौतमादीनामुपरि कुर्वन्ति, न चैतत्कृत्यं जिनेन्द्रदेवेन्द्रयोरन्यतरेण कर्तुं शक्यते, त्रैलोक्यपूज्योऽपि श्रीवीरजिनेन्द्रो गौतमादीनां मस्तके शक्रानीतवासमन्तरेण किं प्रक्षिपति ?, आनीतमपि वासं निजपट्टधरतया व्यवस्थापनीयानां गणधराणां गणधरपदस्थापनानिमित्तं श्रीवीरमन्तरेण कः करोति ?, भगवद्वासक्षेपानन्तरं देवानामपि | पूज्यो भवति गणधरादिसाधुवर्ग इति ज्ञापनाय देवदेवीभिविना कुसुमादिवृष्टिं के कुर्वन्तीत्यादिव्यतिकरण संयोग एव फलवान् , | यदागमः-"संजोगसिद्धी फलं वयंति,न हुएगचकेणरहो पयाई" इति (आव०नि० १०२) एतद्दष्टान्तेन दाान्तिकयोजना त्वेवं
NIS
H IDARI
३२।
Jan Education
For Personal and Private Use Only
www.jainelibrary.org