________________
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१३॥
दिमिः क्रियाविशेषः पूजोच्यते, अन्यथा प्रतिष्ठाया वैयर्थ्यमापद्येत, अप्रतिष्ठिताया अपि प्रतिमाया द्रव्यपूजार्हत्वात् , यदंशे|श्रावकातिसरिकृत्यत्वं तदंशे सूर्यकृत्यत्वसाधने बाधः, क्रियामात्रे च साधनेशतो बाध इत्याद्यनुमानप्रयोगनिपुणैः स्वयमेव भाव्यमितिगाथार्थः ष्ठाप्रतिषेधः |॥६॥ अथ प्रतिष्ठायां किं सूरिकृत्यं किं च श्रावककृत्यमिति स्पष्टयितुं गाथामाह
तत्थवि जमणारंभं जिणभणिअंतमि सूरिअहिगारो। सेसेसु अ अहिगारो गुरूवएसा गिहीणंपि ॥७॥
'तत्रापि प्रतिष्ठायामपि 'अणारंभं' निरारम्भं क्रियाकाले सचित्तानुपयोगि तदपि यद् जिनभणितम् , अनेन विशेषणेन | निरारम्भमपि जिनानुपदिष्टं न मोक्षाङ्गमिति ज्ञापितं,हितवचने जिनाबाया एव प्राधान्याद् , यदुक्तं-"आणाइ तवो आणाइ संजमो तहय दाणमाणाए। आणारहिओ धम्मो पलालपूलुव्व पडिहाइ ॥१॥” इति जिनाज्ञामन्तरेण स्वबुद्ध्या सुन्दरमप्यसुन्दरमेव, यदागमः| "अप्पागमो किलिस्सइ जइवि करेइ अइदुक्करं तु तवं। सुंदरबुद्धीइ कयं बहुयंपि न सुंदरं होई ॥१॥" इतिश्रीउपदे०(४१४)"तंमि"त्ति तस्मिनिरारम्भे जिनभणिते सूरेः-आचार्यस्योपलक्षणादुपाध्यादेरपि परिग्रहः,तस्याधिकारो जिनाबा,शेषेषु च गुरूपदेशाद्'गृहिणामपि' श्रावकाणामपि, उपलक्षणात् श्राविकाणामपि, स्वस्वकृत्येषु अधिकारः, प्रतिष्ठाकल्पोक्तविधिना क्वचित्कृत्येपु श्रावकाणां क्वचिच श्राविकाणामप्यधिकार इत्यर्थः, गुरूपदेशादित्यनेन यादृच्छिकप्रवृत्तिः श्रावकश्राविकाणामपि नोचितेति ज्ञापितं, अन्यथा काणकुण्यादयः श्रावकाः श्राविकाच वन्ध्याविधवादयोऽप्यधिकारिण्यो भवेयुः, न च तेषामधिकारः, प्रतिष्ठाकल्पादौ निषिद्धत्वादिति गाथार्थः ॥७॥ अथ सूरिश्रावकयोरुक्तकृत्यं सव्यक्तं सदृष्टान्तं च विभणिषुर्गाथायुग्ममाहथुइदाण मंतनासो जिणआहवणं तहेव दिसिबंधो'। नेत्तुम्मीलण देसण गुरुअहिगारा जिणुवइहा ||८||
S
anitam
D
॥१३॥
For Person and Private Use Only