________________
श्रावकप्रतिछाप्रतिषेधः
श्रीप्रवचनपरीक्षा ३विश्रामे ।।१२७॥
न हि चूर्णिकारं प्रमाणतयाऽभ्युपगम्य चूर्णिकारेण प्रमाणीकृते पुरुष प्रामाण्याभावं वक्तुं शक्यते,अथ श्रीसिद्धसेनश्रीहरिभद्रसूरिप्रभृतिमिरेव कृता अमी प्रतिष्ठाकल्पा इति नामाकं सम्यगास्थेतिचेत्तर्हि संप्रत्यङ्गोपाङ्गनियुक्त्यादिकमपि श्रीसुधर्मखाम्यादिकृतमिति कथमास्थेति, युक्तः समानत्वाद् , अथ प्रतिष्ठाकल्पोक्तो विधिः क्वापि नोपलभ्यतेऽतो नास्थेतिचेत्तर्हि प्रतिष्ठव नाङ्गीकर्तव्या, अनुपलब्धस्याप्यङ्गीकारे शशविषाणस्याप्यङ्गीकारापत्तेः, अथ नाममात्रेण प्रतिष्ठा सिद्धान्ते समुपलभ्यते, यदुक्तं-"निअदवमपुवजिणिंदभवणजिणबिंबवरपइट्ठासु। विअरइ य पत्थपुत्थय सुतित्थतित्थयरपूआसु ॥१॥"(२७-३०६) इतिश्रीभक्तप्रकीर्णके इति चेत्तहि नाममात्रेणैव प्रतिष्ठा श्रद्धेया तथैवोपलम्भात् ,न पुनर्वेदिकायवारकाष्टादशस्नात्रादिविधिरपि,तस्य क्वाप्यनुपलम्भाद् ,अथ प्रतिष्ठाकल्पे स विधिरुपलभ्यते इति चेदलं विवादेन, तेषु सूरेरेव पद कृत्यान्युक्तानि, एवमुक्तयुक्त्या श्रावकधर्मान्तर्भूताया अपि प्रतिष्ठायाः साधुसापेक्षत्वे सिद्धे न किञ्चिदनुपपन्न, यतो यथा श्रावकधर्मेऽपि सम्यक्त्वमूलद्वादशवतोच्चारे प्रतिमायुच्चारे च अहण्णं भंते ! इत्यादिर्यावद्वासनिक्षेपादिकं साधुकृत्यं सङ्घभक्त्यादिकं च श्रावककृत्यं तथा प्रतिष्ठायामपि 'थुइदाण१ मन्तनासो२' इत्यादीनि पट् कृत्यानि सूरिसंबन्धीनि शेषमशेषं तु द्रव्यव्ययादिसाध्यं सचित्तजलफलपुष्पादिसाध्यं च श्रावककृत्यमेव,तथा चैकस्या अपि प्रतिष्ठायाः क्वचिदंशे साधुकृत्यत्वेन साधुधर्मान्तर्भूतत्वं क्वचिदंशे श्रावककृत्यत्वेन श्रावकधर्मान्तर्भूतत्वं चेत्युभयमपि न विरुध्यते, तथा चानुमाने बाधः स्फुट एव, साधुकृत्यत्वेन सिद्धेऽपि प्रतिष्ठाकृत्ये तदभाव साधनात , न चैकस्य कार्यस्योभयस्वभावत्वं कथं संभवतीति शङ्कनीयम्-एकस्मिन्नेव पुत्रे मातृपुत्रीत्वपितृपुत्रत्वयोरिखाध्यक्षसिद्धत्वाद् , अत एव ऋषभदेवस्य नाभेयो मारुदेवश्चेत्यभिधानद्वयमप्यविरुद्धं, ननु यदि कदाचिदाचार्यादिसामय्यभावे तीर्थकृदभिमुखीभूय तीर्थकृत्प्रतिमा वा पुरस्कृत्य किंचि
RAILED
॥१२७
in Education Internation
For Personal and Private Use Only
www.jainelibrary.org