SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ A UDIO श्रीप्रवचनपरीक्षा ३विश्रामे ॥१२६॥ मूरिः, परं ज्ञायते त्वया भगवतः कोऽप्यपराधस्तथा कृतो येन भगवता सर्वथा दुरीकृतः, किंच-भो चन्द्रप्रभाचार्य ! यदि तुभ्य- श्रावकातिमेवं रोचते तर्हि स्थापनाचार्यप्रतिष्ठायां शिष्यप्रवाजने मूरिपददाने च वासक्षेपं श्रावक एव करोतु, अन्यथाऽर्द्धजरतीयन्यायमनु ष्ठाप्रतिषेधः सरतस्तव महति संकटे पतनं स्यात् , अथ श्रावकप्रतिष्ठितस्थापनाचार्यस्य पुरस्तात साधूनां प्रतिक्रमणादिकाः क्रियाःन शुद्ध्यन्ति श्रावकवासक्षेपेण च शिष्यः साधुः सूरिश्च न स्यात् , तर्हि श्रावकप्रतिष्ठितायाः प्रतिमायाः पुरस्तात्कथमीर्याप्रतिक्रान्तिपुरस्सरं देववन्दनादिकाः क्रियाः साधवः कुर्युः ?, कथं वा श्रावकप्रतिष्ठिता प्रतिमा तीर्थकरकल्पा भवेदित्याद्यपि किं न पर्यालोचयसि ?, ननु शिष्यमस्तके वासनिक्षेपः सिद्धान्ते भणितः, यदागमः-"खइमि वट्टमाणस्स निग्गयं भगवओ जिणवरिंदस्स । भावे खओवसमिए वट्टमाणेहिं तो गहि ॥१॥" श्रीआव०नि० (३-७३५) एतच्चूर्णियथा-ततो भगवं अणुण्णं मणसीकरेइ, ताहे सक्को वयरामए । थाले दिवगंधगंधिकाणि चुण्णाणि छोढण सामि उवगतो, ताहे सामी सीहासणाओ उद्वित्ता पडिपुण्णं मुठिं केसराणं गेण्हति, ताहे गोअमसामिप्पमुहा इक्कारसवि गणहरा ईसीओणया परिवाडिए ठंति, ताहे देवा आउजगीअसदं नि मंति, पुवं तित्थं गोअमसामिस्स दवेहिं गुणेहिं पजवेहिं अणुजाणामित्ति चुण्णाणि सीसे छुभति, ततो देवताणिवि चुण्णवासं च पुप्फवासं |च वासंति, गणं च मुहम्मसामिस्स धुरे ठावेत्ताणं अणुजाणेति'त्ति श्रीआवश्यकचूर्णौ ४६४ संख्ये पुस्तके१८० पत्रे इति|चेत् तर्हि प्रतिष्ठायामपि समान,श्रीसिद्धसेनश्रीहरिभद्रोमास्वातिवाचकप्रभृतिमहापुरुषप्रकृतप्रतिष्ठाकल्पादिषु सूरिकृत्यत्वेनैव वासनिक्षेपादेरुक्तत्वाद् , अथास्माकं चूर्णिरेख प्रमाणं, न पुनः प्रतिष्ठाकल्पादिरिति चेत्तर्हि चूर्णिकारस्य प्रतिष्ठाकल्पकर्तारः सम्मता असम्मता वा ?, नान्त्योऽसम्मतत्वाद् , आये सुतरां प्रतिष्ठाकल्पानां प्रामाण्यं सिद्ध्यति, अन्यथा माता मे बन्ध्येति न्यायः संपद्यते, ॥१२६॥ HIKARANPHEIRTANTRIPATHIANISMISHRAIRNALISinha asmRRIAL Jain Educational For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy