SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥१२५॥ नन्दिसत्रश्रवणनिमित्तं सप्तविंशत्युच्छवासमानं कायोत्सर्ग विधाय नन्दिसूत्रस्थाने नमस्कारत्रयं गुरुमुखाच्छृणोति, श्रुत्वा च गुरु- श्रावकाति| मुखेन सम्यक्त्वं द्वादश व्रतानि चोच्चरति, गुरुरपि श्रावकमस्तके वर्द्धमानाभिर्मुष्टिभिर्वासनिक्षेपं कुर्वन् 'अहवं भंते ! तुम्हाण समीवे ष्टाप्रतिषेधः | मिच्छत्ताओ पडिकमामी' त्याद्यालापकादिश्रावणेनोच्चारयति, तदनु सप्त क्षमाश्रमणानि, नन्दि प्रदक्षिणयतश्च श्रावकस्य मस्तके सरिर्वर्द्धमानाभिमुष्टिभिर्वासनिक्षेपं करोति, श्रावकोऽप्यात्मानं कृतार्थ धन्यं च मन्यमानस्तं वासं प्रतीच्छति, ततो गुरुमुखेन यथा| शक्त्युपवासादितपः करोति, मरिश्वतं पुरस्कृत्य श्रावकधमोपबृंहणानिमित्तं तदुत्साहपरां धर्मदेशनां विदधाति, ततः श्रावकस्तीणोंऽहं ।। | संसारसमुद्रमित्याद्यात्मानं मन्यमानो यथाशक्ति सङ्घपूजामातोद्यादि श्रावकश्रावकश्राविकादीनां यथोचितद्रविणदानं च सङ्घसमे| तश्चैत्यपरिपाटिमपि विदधाति, किंबहुना ?, यथा यथा प्रवचनप्रभावना भवति तथा तथा प्रवर्तते, एवमेकादशोपासकप्रतिमाप्रति| पत्तिरपि भावनीया, आस्तामन्यत , नमस्कारसहितप्रत्याख्यानघटिकाद्वयमानसामायिकाद्युच्चरन्नपि गुरुसाक्षिकं गुरुमुखेनैवोच्चरति, | किमङ्ग पुनः प्रतिष्ठा माधुनिरपेक्षेति, ननु कुसुमादिभिर्जिनपूजा साधुनिरपेक्षव दृश्यते, तथा प्रतिष्ठाऽप्यास्तामिति चेत् तर्हि पाक्षि| कादिकपौषधकरणं नन्दिवासादिनिरपेक्षं दृश्यते तद्वत्सम्यक्त्वपूर्वकद्वादशवतोच्चारोऽप्यास्तां, युक्तेस्तौल्यात् , तस्माद्धर्माष्ठानमात्रे सदृश एव कारणादिविधिर्नान्वेषणीयः, किंतु परम्परागमानुसारेण यथाऽऽम्नायं कस्यचित् क्वचित क्वचिदपेक्षाऽनपेक्षा वाऽभ्युपगन्तव्या, तेन कुसुमादिद्रव्यपूजाविधौ गुरूपदेशपूर्वकत्वेनैव गुरुसापेक्षत्वमभ्युपेयम् , एवमन्यत्रापि यथासंभवमायोज्यं, किंच-तवामिप्रायेण द्रवस्तवसाम्येऽपि श्रावकेण किमुपकृतं यत्सम्यक्त्वाद्युच्चारसमये श्रावकमस्तके वासक्षेपं तत्कर्णयोः सूत्रालापकश्रावणं सूरिरेव करोति, तीर्थकृता च किमपराद्धं यत्रैलोक्यपूज्यायामपि तत्प्रतिमायां वामक्षेपमन्त्रन्यासं श्रावक एवं करोति, न पुनः For Pesonand Prive Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy