________________
श्रीप्रवचनपरीक्षा ३विश्रामे
॥१२२॥
तद्भाधिकैव वर्णावल्युपलभ्यते, नापि द्वितीयः, क्वाप्यागमे अमुक श्रावकेण प्रतिष्ठा कृतेत्यनुपलब्धेः प्रत्युत “थुइदाण १ मंतनासो२ जिण आहवणं ३ तहेव दिसिबंधो ४ । नेत्तुम्मीलण५ देसण ६ गुरुअहिगारा इहं कप्पे ||१|| ” इति श्रीपादलिप्तसूरिवचः, तथा-रूप्यकचोलकस्थेन, शुचिना मधुसर्पिषा । स नेत्रोन्मीलनं कुर्यात्सूरिः स्वर्णशलाकये ॥१॥ ति श्रीउमास्वातिवाचकवचः, तथा “सदसेण धवलवत्थेण वेढिअं वासधूववत्थेहिं । अभिमंतिउं तिवारं सूरिणा सूरिमंतेणं ||२|| इत्यार्यश्रीसमुद्राचार्यवचः, तथा “तो इटुं संपत्ते | हेमसिलागाइतविहिपुवं । जिणनेत्तुम्मीलणयं करेज वण्णे निसंतत्थो || १ || अच्छीनिलाडसंधिसु हिअएविअ सिरपयाइ एक्ण्णे । | रययस्स वडिआए गहिअमहू थिरमणो सूरी || २ || इति श्रीहरिभद्रसूरिवचः, तथा - विहिवयणं च पमाणं सुत्तुत्तं जेण ठावणागुरुणो । कजा जिणबिंबाणं तं च सविसयं हवइ करणे ॥ १ ॥ इति श्रीहरि भद्रसूरिवचः, इत्यादिप्रवचनप्रमाणपुरुषविरचितस्वस्वप्रतिष्ठाकल्पादिवचांसि त्वदुक्तवचोबाधकान्येवोपलभ्यन्ते, नापि तृतीयः, पूर्वं श्रावकप्रतिष्ठाऽऽसीत् कियता कालेन चैत्यवासिभिः साधुप्रतिष्ठा व्यवस्थापितेति तीर्थप्रवादानुपलब्धेः प्रत्युत श्री शत्रुञ्जयमाहात्म्यश्री महावीरचरित्रादौ श्रीशत्रञ्जयाष्टापदादिषु श्री| नाभसूरि कपिलकेवलिप्रभृतिसाधुभिः प्रतिष्ठा कृतेत्येवं प्रवाद उपलभ्यते, इत्यादिप्राञ्जलयुक्तिलेशेनापि तिरस्कर्त्तव्या चन्द्र| प्रभाचार्ये सत्यपि यावत्तदुद्भावितानुमानाभासादिरचना तत्प्रतिपक्षभूतैरनुमानादिभिर्न निराक्रियते तावत्केपाञ्चिन्मुग्धानां दुर्विदग्धानां च शङ्कापिशाचीपराभृतिर्नापैतीति विचिन्त्य तत्पराकरणायोपक्रम्यते, तथाहि प्रतिष्ठा न साधुकृत्यं, द्रव्यस्तवत्वात्, कुसुमादिना | जिनपूजावदितिप्रथमानुमाने द्रव्यस्तत्वादिति पदद्वयात्मकस्य हेतोद्वयोरपि शब्दयोर्वैकल्पिकपर्यायानुद्भाव्य दूषयितुं गाथामाह'अंगारमहओ दवायरिओ सयाऽभवो' ति वचनात्, 'द्युम्नं द्रव्यमृक्थ' मित्यादिवचनाच्च द्रव्यं किमप्रधानमुत द्रविणं चेति
Jain Educationa International
For Personal and Private Use Only
श्रावकप्रतिठानिषेधः
॥१२२॥
www.jainelibrary.org.