________________
श्रीपरचनपरीक्षा श्विश्रामे ॥१२॥
MARRIAHINILITATPIR
HTMISHRA
श्रावकातिष्ठानिषेधः
जिणपडिमाण पइट्ठा न साहुकजं तु दवथयभावा । अहवा सावज्जत्ता कुसुमेहिं जिणिंदपूयच ॥४॥
जिनप्रतिमाप्रतिष्ठेतिपक्षः, न साधुकार्यमिति साध्यं, तुशब्दात् श्रावकेणैव कार्यमिति द्वितीयमपि साध्यं चोध्यं, द्रव्यस्तवभावात्-द्रव्यस्तवत्वात् सावद्यत्वाचेति हेतुद्वयम् , अत्र सावद्यत्वादितिहेतुर्न चन्द्रप्रभाचार्योद्भावितः, किंतु तिलकाचार्योहावितः, तिलकाचार्यस्तु तदन्वयीतिकृत्वा प्रसङ्गतोत्र लिखितोऽपि हेतुः 'तिलगो कुवखतिलगो'त्ति त्रयस्त्रिंशत्तगाथात आरभ्य निराकरिष्यते, कुसुमैजिनेन्द्रपूजेवेति दृष्टान्त इतिगाथार्थः ॥४॥ दबमपहाण दविणं थओवि जिणभत्ति धम्ममित्तं वा । दूसइ न किंचि किच्चं मुणिउचिअपइकिच्चेसु ॥५॥
अथ स एव तावदित्थं प्रष्टव्यः-भो चन्द्रप्रभाचार्य ! अद्य यावदच्छिन्नं तीर्थमासीत् न वा?, नेति वक्तुमशक्यत्वेनासीदित्येव वक्तव्यं, तच्च तीर्थ साधुप्रतिष्ठामाश्रितमुत श्रावकप्रतिष्ठां वा?, यदि साधुप्रतिष्ठामिति ब्रूषे तर्हि किं त्वं तीर्थबाह्यभवनेनात्मानं केशयसि ?, अथ पूर्वमविधिरेवासीदितिचेत् तर्हि विधिं कुर्वाणोऽपि त्वमच्छिन्नपरम्परायाततीर्थबाह्यः संपन्न इति विधेरिहैवैतत्कलं प्रासं, परत्रासाद्विधेः किं फलं भावीति स्वयमेव किमिति न पर्यालोचयसि ?, अथ पूर्व श्रावकप्रतिष्ठेवासीत् ,परं कियता कालेन चैत्यवासिमिः साधुप्रतिष्ठा व्यवस्थापितेति चेत् तर्हि एतद्वचनं त्वयैवाप्तेनोक्तमस्माभिः श्रद्धेयं उत तब्यञ्जकमन्यत्किमप्यस्ति ?, आद्यपक्षे दिव्यकरणमन्तरेण त्वय्याप्तत्वमेव को गईभीक्षीरपायी श्रद्दधातीति पल्लवमादाय दर्यतां, द्वितीये तब्यञ्जकं त्वदुत्पचेः पूर्व प्रतिष्ठितासु प्रतिमासु अमुकेन श्रावकेणेयं प्रतिमा प्रतिष्ठितेत्यादिवर्णावली उतागमो वा आप्तजनप्रवादो वा', नायः, कस्खामपि प्रतिमायां तथावर्णावल्या अनुपलब्धेः, परं यत्र कापि जीर्णप्रतिमासु वर्णावली तत्रामुकमरिमिः प्रतिष्ठितममुकविम्पमित्यादिरूपेण
॥२२॥
For Pesonand Prive
Only