SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ HTML पौर्णिमीयकोत्पत्तिः श्रीप्रवचनपरीक्षा ३विश्रामे ॥१२०॥ AMAVALI नमतिः सन् प्रतिष्ठा साधोः कृत्यं न भवति, किंतु श्रावककृत्यमिति भणति, किं कुर्वन् ?-भो लोकाः! प्रतिष्ठा द्रव्यस्तव इति युक्तिं | जल्पन महाशब्देन, बाढस्वरेणेत्यक्षरार्थः ॥ भावार्थस्त्वयं-तदानीं किल राजश्रीकर्णवारके श्रीचन्द्रप्रभमूरिः श्रीमुनिचन्द्रमूरिः श्रीमान् देवमूरिः श्रीशान्तिसूरिश्चेति चत्वारोऽप्येकगुरुशिष्याचारित्रिणोऽभूवन , तेषां मध्ये समधिकज्ञानादिगुणैः सर्वजनपदविख्यातः श्रीमुनिचन्द्रसूरिः, अन्यदा श्रीधरनामा कश्चिन्महर्दिकः श्रावको बहुवित्तव्ययेन महामहःपूर्व श्रीजिनेन्द्रप्रतिमा प्रतितिष्ठापयिषुवृद्धत्वात् श्रीचन्द्रप्रभाचार्य प्रति मोक्तवान्-भोः पूज्या ! मदीयमनोरथसफलीकरणाय प्रतिष्ठाकृते श्रीमुनिचन्द्रसूरीनाज्ञापयतेति, महान्तमुपरोधं च कृतवान् , चन्द्रप्रभाचार्यश्चिन्तितवान-मयि वृद्धे सत्यपि कथं श्रीमुनिचन्द्रसूरिः प्रतिष्ठां करोतीत्यभिमानत्यागाक्षमः तन्महोत्सवविध्वंसनाय भो चतुरश्रावक ! विधिना प्रतिष्ठां कुरु, न ह्यागमे साधोः प्रतिष्ठाकृत्यमुक्तं, किंतु द्रव्यस्तवत्वेन श्रावकस्यैव युक्तमित्यादियुक्त्या वि० सं० ११४९ वर्षे श्रावकप्रतिष्ठा प्ररूपिता, सङ्घनाप्युपेक्ष्य तिरस्कृताः, तत एकाकीत्यसौ कारणेऽपि पततीति विचिन्त्य | श्रीमुनिचन्द्रसूरिमत्सरेण मतभेदकरणाय सं० ११५९ वर्षे अद्य रात्रौ मम पद्मावत्या आगत्योक्तं-श्रावकप्रतिष्ठा पूर्णिमापाक्षिकं चेत्यनादिसिद्धं त्वं प्ररूपयेति वचसा मया पूर्णिमापाक्षिकं करिष्यते, द्वितीया पूर्णिमा प्रकाशिता, ततः श्रीसङ्घन प्रवचनोपघातकं वचनं मा बृहीत्याक्रोशितोऽपि प्रत्युक्तवान्-यदि पद्मावत्योक्तं न प्रमाणीक्रियते तर्हि सा मयि कुप्यतीति वचसा सङ्घोक्तमप्रतिपद्यमानोऽसावमिनिवेशीतिकृत्वा सङ्घबाह्यः कृत इति व्यतिकरवान् चन्द्रप्रभाचार्यो मत्सरेण प्रथम श्रावकप्रतिष्ठा प्ररूपितवानिति | गाथाद्वयार्थः ॥२-३ ॥ अथ चन्द्रप्रभाचायोद्भावितानुमानप्रयोगघटितां गाथामाह HINEMAIF ॥१२०॥ Jan Education For Personal and Private Use Only www.jainelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy