________________
___ अथ पौर्णिमीयमतनिरसनस्तृतीयो विश्रामः
पौर्णिमीयकोत्पत्ति
श्रीप्रवचनपरीक्षा ३विश्रामे ॥११९॥
अथ पौर्णिमीयकमतं बिभणिषुः किनामा पौर्णिमीयकमताकर्षकः कस्मात् गणात् कस्मिन् संवत्सरे किंनिमित्तानिर्गत इति| ज्ञापनाय गाथामाह
अह चंदप्पहरिप्पभवं पुण्णिममयं वडगणाओ। एगारइगुणसट्ठीवरिसे गुरुबंधुऽमरिसेणं ॥१॥ 'अर्थ' ति बोटिकवक्तव्यतानन्तरं क्रमप्राप्तं बोटिकोत्पत्तेर्भूयसा कालेनापि विद्यमानापत्यकमिदमेव जातमिति गम्यं, किंलक्षणम्| 'चन्द्रप्रभसूरिप्रभवं' चन्द्रप्रभाचार्यात्समुत्थम् , अनेन विशेषणेन तन्मताकर्षकश्चन्द्रप्रभसूरिः प्रदर्शितः, 'वटगच्छात्' वृहद्गच्छानिर्गत इति निर्गमगणोऽपि दर्शितः, कस्मिन् संवत्सरे ?-'एकादशैकोनपष्टिवर्षे एकोनषष्टयधिकैकादशशतवर्षातिक्रमेाद्विक्रमसंव|त्सरतः, अनेनोत्पत्तिसंवत्सरः प्रदर्शितः, केन हेतुना ?--'गुरुबन्ध्वमर्षेण' गुरुवन्धुः-श्रीमुनिचन्द्रमूरिस्तस्यामर्षेण-मत्सरेणेति | गणानिर्गमहेतुः सूचित इतिगाथार्थः ॥१॥ अथामर्षकारणप्रदर्शनाय गाथाद्वयमाह
गुरुभाया मुणिचंदो संविग्गो आसि सूरिपयपत्तो। कस्सइ तेण पइटें करिजमाणं सुणिअ रुसिओ ॥२॥ _तम्महविद्धंसमई भणइ पइहा न साहुणो किच्चं। दवत्थओत्तिजुत्तिं जपंत महंतसद्देण ॥३॥ युग्मं
चंद्रप्रभाचार्यस्य गुरुभ्राता-सतीर्थ्यः आचाम्लादितपोऽनुष्ठानकष्टेन संविग्नो बहुश्रुतो गणनायकतां प्राप्तः श्रीमुनिचन्द्रमरिरासीत् , तेन कस्यचिन्महर्द्धिकस्य श्राद्धस्य प्रतिष्ठां क्रियमाणां श्रुत्वा रुष्ट:-क्रोधाविष्टश्चन्द्रप्रभाचार्यः तस्याः प्रतिष्ठाया महोत्सवविध्वंस
ItemiditamIIIIIIIIIIIIIIIIIIINDAI MAHILDERLIRIDAINIRAIMILSINARAINEER HAIRanANABERDARNIHDIMPAINI
m e
in Education tembon
For Personal and Private Use Only
www.neborg