SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रीप्रववनपरीक्षा २ विश्रामे ।।११६।। तं सोऊणं रुठ्ठो दुट्ठो खमणोऽवि कासि नगिगतं । निअपरिमाणं जिणवरविगोवणं सोऽवि गयसन्नो || ६८ || तत् - श्रीजिनेन्द्रप्रतिमानां पदमूले श्रीसङ्घकृतं पल्लवचिह्नं ज्ञात्वा दुष्टः क्षपणको 'रुष्टः क्रोधाविष्टः सन् सङ्घं प्रति किश्चित्कर्तुमशक्तो जिनवरविगोपनमर्थात्तद्धेतुः - 'निजानां' स्वायत्तानां जिनप्रतिमानां नग्नत्वं दृश्यमानलिङ्गाद्यवयववत्वमकार्षीत् स'विग तसंज्ञो नग्नाकारकरणेन जिनेन्द्रविगोपनं भविष्यति नवेति विचारणाशून्यः, अयं भावः - अहोऽस्मन्निश्रितप्रतिमाकारतो भिन्नाका|रकरणाय यदि श्रीसद्धेन पल्लवचिहून मकारि, करिष्यामस्तर्हि वयमपि श्वेताम्बरप्रतिमातो मिन्नत्वकरणाय किञ्चिच्चिहूनमितिविचिन्त्य | मत्सरभावेन जिनप्रतिमानां नग्नत्वं विहितं श्वेताम्बरेण स्वयं वस्त्रधारित्वात् वस्त्रं चिह्नं कृतं, दिगम्बरेण स्वयं नग्नत्वात् नग्नत्व| मेवेति गाथार्थः ||६८ || अथ मुग्धजनप्रत्यायनाय तच्चिहूनमाह तेणं संपइपमुपडिमाणं पल्लवंकणं नत्थि । अस्थि पुण संपईणप्पडमाण विवायकालाओ ॥ ६९ ॥ येन कारणेन विवादे समुत्पन्ने पल्लवचिहूनं प्रतिमासु संवृत्तं तेनैव कारणेन 'सम्प्रतिप्रमुखप्रतिमानां' विवादात् पूर्वकालभाविनीनां | त्रिखण्डाधिपतिसंप्रतिनृपप्रभृतिनिर्मापितानां जीर्णप्रतिमानां 'पल्लवाङ्कनम्' अञ्चलचिह्ननं 'नास्ति' न विद्यते, 'अस्ति' विद्यते पुनः | साम्प्रतीनप्रतिमानां - आधुनिकजिनप्रतिमानां पल्लव चिह्नमिति, साम्प्रतीनत्वं कुत इत्याह- 'विवायकालाउ 'ति उज्जयन्तगिरिमाश्रित्य ( दिगम्बरैः) सह विवादकालादिति गाथार्थः ||६१|| अथ विवादकालात्पूर्वं किमासीत्तदाह- पुर्वि जिणपडिमाणं नगिणत्तं नेव नविअ पल्लवओ । तेणं नागारेण भेओ उभएसि संभूओ ॥७०॥ 'पूर्व' विवादात्पूर्वकालं जिनप्रतिमानां नैव नग्नत्वं नापि च पल्लवक:- अञ्चलचिह्नं, तेन कारणेन आकारेण जिनप्रतिमानामु Jain Education International For Personal and Private Use Only गिरिनारि वादः पल्लवचिह ।।११६॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy