________________
समित्याधभावः तीवाह्यता च
श्रीप्रव. चनपरीक्षा २विश्रामे ॥११३॥
नादिसिक्थधृतये गृहस्थैः कुण्डिकादिकं मण्डयित्वा भुक्त्यनन्तरं गृहस्थैरेव उच्छिष्टसिक्थादिकं परिष्ठापयतस्तव पारिष्ठापनिकासमितिर्दुरुत्तरैव, तथा ईर्यासमितिस्तु गृहस्थाचारवतस्तव न संभवत्येव, एवं समितिपञ्चकाभावे कुतो मनोवाकायगुप्तयोपि?, ननु तर्हि तीर्थकृतामपि समित्यादीनामभावः संपद्यते, तेषामपि वस्त्रपात्राद्यभावेन समितिपश्चकासंभवादिति चेत् , मैवं, तेषां तथाकल्पत्वेन प्रागुक्तयुक्त्या वस्रपात्राद्यभावेऽप्यसमितीनामभावात् , तत्प्रतिपक्षभूतानां समितीनामेव सद्भावात् , यथा सिद्धानां प्रत्याख्यानाभावेऽप्यनावित्वात्तत्प्रतिपक्षभूतः संवर एव सिस्पति, वस्तुतस्तु उक्तलक्षणाः समितयः साधूनुद्दिश्योपदिष्टास्तीर्थकद्भिः, | तीर्थकरवर्णने तु कथश्चित्साधुसाम्यात्तीर्थकृतामप्युक्ता द्रष्टव्या इतिगाथार्थः ॥६१॥ अथ न केवलं प्रवचनगम्येनैव ज्ञानाद्युपचारेण हीना नग्नाटाः प्रवचनबाह्याः, किंतु प्रकारान्तरेणापीति दर्शयति
भोअणनेवत्थेहि अ पञ्चक्खं अण्णउत्थिआ नगिणा । नगिणा णाणाईहिं णाणीहिं ते मुणेयवा ॥६२॥
भोजनं तावदेकत्र गृहे उद्दिष्टौदनादीनां भक्षणं, नेपथ्यं पिच्छिकाकमण्डलुप्रभृतिभिर्यतिरूपधरणं, ताभ्यां चिह्नीभूताभ्यां साक्षादन्यतीथिका एव दृश्यन्ते, यस्मादेवं तस्माद् 'ज्ञानिमिः' पंडितैननाः-ननाटाः शानदर्शनचारित्रै रहिताः-शून्या एव ज्ञातव्याः | इति गाथार्थः ॥६२।। अथ कीदृशा नग्नाटाः किमायत्तं च तीर्थमित्युपसंहारमाह
एवं किरिआहीणा नगिणा णाणेण तित्थबाहिरिआ। सेअंबरेहिं तित्थं जुत्तेहिं णाणकिरिआहिं ॥६३।। 'एवम्' अमुना प्रकारेण क्रियाहीनो-ज्ञानाद्युपचाररहितो नेपथ्यादिरहितश्च ज्ञानेन शून्यो यथावस्थितवस्तुपरिज्ञानविकलः सन् जैनप्रवचनबाह्यो नमाटः स्फुट एव, ननु उक्तलक्षणो ज्ञानाद्युपचारो हि श्वेताम्बराभ्युपगतागमे वर्त्तते, न पुनरस्मदभ्युपगतागमे
॥११३॥
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org