________________
श्रीप्रवचनपरीक्षा २विश्रामे ॥११२॥
दिगंबरे समित्यभाव:
चरणुवयारो पंचहि समिईहिं होइ तीहिं गुत्तीहि । सो पुण तुह भमरीए भट्टो दिट्ठो मए सक्खं ।। ६० ।। - चरणोपचार:-चारित्राराधना ईर्यासमित्यादिभिः पञ्चभिः समितिभिः मनोगुप्त्यादिभिस्तिसृभिर्गुप्तिभिश्च भवति, स च तव मते 'भ्रमर्या' भिक्षाचर्या भ्रष्टो-भ्रंशमापन्नो मया साक्षात्प्रत्यक्षं दृष्टः,प्रत्यक्षापलापस्य केनापि कर्तुमशक्यत्वादिति गाथार्थः॥६०॥ अथ समित्याधभावं दर्शयत्राह-- जह जामाइअपमुहा पाहुणया अण्णउत्थिआ अहवा। उद्दिट्टमोअणाई भुंजंति तहेव तुम्हंपि ॥ ६१ ।। यथा जामातृप्रमुखाः प्राघूर्णका अथवा अन्यतीथिकाः 'अद्यास्मद्गृहे भोक्तव्य'मित्याद्यादरवचनरञ्जिता 'उद्दिष्टं तन्निमित्तमेयोपस्कृतं यदोदनादि यावद्भोजनोपयोगि शाल्यादि सकलवस्तुजातं तद्धले तथैव त्वमपि, अस्मद्गृह एवं गोचरी कर्तव्येति निमन्त्रणरञ्जितः प्राघूर्णक इव एकत्र भुञ्जानः कथं समितिगुप्तिभाक् ?, न कथमपीत्यर्थः, समितीनामभावत्त्वेवं-सदोषमाहारं भुञ्जानस्यानेषणीयभोजित्वात् कथं तद्विरोधिनी एपणासमितिः?,अनेषणीयं भुक्त्वा च निर्दोषभोजित्वमात्मनः ख्यापयन् असत्यभाषित्वात् न भाषासमितिमान् , आदाननिक्षेपणासमितिस्तु संयमोपकारिवस्त्रपात्रादिधर्मोपकरणमुपदधत एव भवति, यदागमः-"ओहोवहोवन्गहिअं, भंडगं दुविहं मुणी । गिव्हतो निखिवंतो वा,पउंजिज इमं विहिं ॥१॥ चकखुसा पडिलेहिता, पमजिज जयं जई। आइए | निखिविजावा, दुहओवि समिए सया।२॥ (७१९३३-४)त्ति" तथा पञ्चमीसमितिरुच्चाराद्याहारपर्यन्तं परिष्ठापयत एव भवन्ति, यदागमः-"उच्चारं पासवणं, खेलं सिंघाणजल्लिअं । आहारं उवहिं देह,अण्णं वावि तहाविह।शा विच्छिन्नं दूरमोगाढे,नासन्ने बिलवञ्जिए । तसपाणबीअरहिए, उच्चाराईणि बोसिरे ।। २॥"त्ति (७।९३५-६) श्रीउत्तरा० २४ । भोजनावसरे घृतादिसंपृक्तक्षरद
॥११२॥
Marap
For
and Prive Oy