SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा २विश्रामे ॥ १११ ॥ Jain Education International धिपूर्वकद्वादशोपवासैः श्रीपञ्चमङ्गलमहाश्रुतस्कन्धस्याराधनं करोति, तत्रापि प्रतिदिनक्रिया तावदच्छिन्नाचार्य परिपाट्या समागता अवगन्तव्या, एवं द्वितीयोपधानादिषु श्रीमहानिशीथोक्तविधिनाऽऽराधनविधिरखगन्तव्यः, साधुवर्गस्य तु श्रीआवश्यकश्रुतस्कन्धस्याचाम्लादितपोविशिष्टैरष्टभिर्दिनैराराधनं, श्रीदशवैकालिकश्रुतस्कन्धस्य पञ्चदशमिर्दिनैः, श्रीउत्तराध्ययनस्याष्टाविंशत्या दिनैः श्रीआचाराङ्गस्य पञ्चाशता दिनैः श्रीसूत्रकृदङ्गस्य त्रिंशता दिनैः श्रीस्थानाङ्गस्याष्टादशभिर्दिनैः श्रीसमवायाङ्गस्य त्रिभिर्दिनैः श्रीभगवत्यङ्कस्य पद्दिनाधिकैः षद्भिर्मासैः श्रीज्ञाताधर्मकथाङ्गस्य त्रिंशता दिनैः श्रीउपासकदशाङ्गस्य चतुर्दशभिर्दिनैः अन्तकृद्दशाङ्गस्य द्वादशभिर्दिनैः अनुत्तरोपपातिकस्य सप्तभिर्दिनैः श्रीप्रश्नव्याकरणस्य चतुर्द्दशभिर्दिनैः श्रीविपाकश्रुताङ्गस्य चतुर्विंशत्या दिनैश्च | यथोक्तक्रियाविशिष्टैरेवाराधनं स्यात्, एवमुपाङ्गच्छेदग्रन्थप्रकीर्णकादिष्वपि स्वस्वाराधन नियततपः क्रियाविशिष्टैर्बोध्यं, एवं श्रुताराधनविधिस्तव दिगम्बरस्य शासने- त्वदीयदर्शने, आस्तां साक्षात्, स्वप्नगतेनापि नाम्ना न श्रुतो-न श्रवणपथमागतः, गगनभक्षणादिकमसंभव्यपि स्वप्ने संभवतीतिज्ञापनायेदं दर्शितमितिगाथार्थः || ५८ || अथ दर्शनोपचारमाह egaurisरिहंता सायणाचायओ न सो तुम्हं । जेणं जिणपडिमाहिं सह वासो सायणामूलं ॥ ५९ ॥ दर्शनं - सम्यक्त्वं तस्याराधनं तीर्थकृदाशातनात्यागतो भवति, स च त्यागस्तव कथमपि न संभवति, अयं भावः सम्यक्त्वं | तावत् सर्व्वविदुपदिष्टपदार्थ सार्थस्य यथावच्छ्रद्धानं, तच्च तव दुरापं, यत आस्तामन्यत्, पदार्थसार्थान्तर्गता तीर्थकराशातना परिहार्यत्वेन श्रद्धाय परिहर्त्तव्या, सा च त्वया तथा श्रद्धानविषयीकृत्य न परिड्रियते, प्रत्युतोदीर्य विधीयते, तत्कथमित्याशङ्कायामाह - 'जेणं' ति | येन कारणेन तव जिनप्रतिमाभिः सहवास आशातनामूलं वर्त्तते, कुतः सम्यक्त्वाराधनमितिगाथार्थः ॥। ५९ ।। अथ चरणोपचारमाह For Personal and Private Use Only दिगंबरे ज्ञानाचाराभावः ॥ १११ ॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy