________________
Faima
N
श्रीप्रवचनपरीक्षा २विश्रामे ॥११०॥
itinuditite
__ यद्दिगम्बरेभ्यः श्वेताम्बराः पश्चादुत्पन्नास्तन्मिथ्या-असत्यं,यद्-यस्मात् तीर्थ हि तीर्थकृत्प्रवर्तित "तित्थं चाउचण्णो संघोसो | दिगंबरे पढमए समोसरणे"त्ति (३-२६५) वचनात् साध्वादिलक्षणं, तच्च क्रियायुक्तं भवति, तत्र क्रिया तावत् ज्ञानाचाराधनरूपा, तया
ज्ञानाचा
राभाव: युक्तं-सहितं तीर्थकरा भाषन्ते इतिगाथार्थः ।।५६।। अथ जिनोक्तां क्रियामाह
सा पुण किरिआ तिविहा णाणुवयारो अदसणुवयारो। चरणुक्यारो अतहा उवयारो राहणा तेसिं ।।५७॥ __सा पुनः क्रिया त्रिविधा भवति, तस्यास्त्रैविध्यमाह-ज्ञानोपचारः, चः समुच्चये, दर्शनोपचारः चारित्रोपचारश्चेति त्रैविध्यं, तत्रोपचारशब्दस्य कोऽर्थ इत्याकाङ्क्षायामाह-उपचारस्तेषां-ज्ञानादीनामाराधना-तीर्थकदुपदेशेन तदनुकूलप्रवृत्तिरित्यर्थ इति गा| थार्थः।।५७।। अथ ज्ञानस्योपचारमाहतत्थ य णाणुवयारो परंपरुवहाणजोगपमुहेहिं । तुह सासणि सो न सुओ नामेणवि सुमिणपत्तणं ॥१८॥
तत्र ज्ञानादिषु ज्ञानोपचारो यथा-"काले१ विणए२ बहुमाणे३ उवहाणे४ तह चेव अनिण्हवणे५ । वंजण६ अत्थ७ तदुभए८ अट्ठविहो णाणमायारो॥शाति" तत्र चतुर्थाचारतपोलक्षणमधिकृत्य श्रुताराधनं परम्परोपधानयोगानुष्ठानप्रमुखैर्भवति, तत्र परम्परा तावत् श्रीसुधर्मस्वामिनोऽद्ययावदच्छिन्नपरिपाटी, न पुनः स्वच्छन्दप्रवृत्तिभाग्भ्यः शिवभूत्यादिम्यः प्रवृत्ता, तत्संतानप्रवाहरूपेत्यर्थः, तया परिपाट्या अर्थादागता ये उपधानयोगाः-श्रुताराधनतपोविशेषाः, तत्रोपधानानि श्रीआवश्यकश्रुताराधनहेतवे श्रावकश्राविकाणामेव, योगास्तु कालिकोत्कालिकश्रुताराधनतपोविशेषाः साधुसाध्वीनामिति, तत्र श्रावकोपधानविधेर्दिग्दर्शनं त्वेवं -पञ्चचत्वारिंशदाचाम्लतपःपुरस्सरमुद्देशानुज्ञादिक्रियया कृतमहानिशीथयोगानुष्ठानस्य साधोः समीपे श्रद्धावान् श्रावको नन्दिवि- ॥११०॥
Jan Education Intebon
For Personal and Private Use Only
www.jainelibrary.org