SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा २ विश्रामे ॥। १०९ ।। भोज | रजनसाम्यं स्यात्, तन्न मच्चेतसि प्रतिभासते इति चेत्, तर्हि तीर्थकृतामितरजनवजन्मादिविधिरपि स्वीकर्त्तव्यो न स्याद्, | नापेक्षया स्त्रीकुक्षिसंभवादेरत्यन्त कुत्सनीयत्वात्, अतस्त्वद्विकल्पितमनल्पपापीय इत्यलं विस्तरेणेति गाथार्थः ॥ ५३ ॥ इति केवलिभुक्तिव्यवस्थापना || अथ नग्नाटमतं कथमेतावद्वृद्धिमुपागतमित्याकाङ्क्षायां गाथामाह सिव भूइप्पभवमयं एअं कालाणुभावओ वुड्ढं । मूढाण पुराणंतिअ भंतिकरं णंत भवऊ ||१४|| एतदिदानीमेवानन्तरं लेशतो दर्शितं शिवभूतिप्रभवं मतं 'कालानुभावतः ' श्रीवीरजन्मनक्षत्रसंक्रान्त भस्मग्रहकुपितकलिकालानुभावतो भूयसां जनानां निमञ्जनस्वभावत्वाच्च वृद्धिं गतं मूढानां तन्मतवासिनां 'पुरातन' मिति जीर्ण - श्वेताम्बरेभ्यः पूर्वं प्रवृत्तमिति भ्रान्तिकरं भ्रमजनक मनन्तभवहेतुः - चातुर्गतिकानन्तसंसारपरिभ्रमण कारणं स्वस्य परेषां च तदभिमुखानामिति गाधार्थः ॥ ५४ ॥ अथ पुरातनभ्रान्तिरपि नग्नाटवचनादेव जायते अतस्तद्वचनपद्धतिमाविष्करोति— Jain Education International नगिणो पभणइ पढमं अम्हे अम्हेहिं निग्गया तुम्हे । तेणं तित्थं अम्हे तुम्हे तित्थाउ बाहिरिआ ||१५|| 'नग्नो' दिगम्बरः 'प्रभणति' पूत्कुरुते प्रथमं - तीर्थप्रवृत्तिकाले आदिभूता 'अम्हे' ति वयं 'तुम्हे' त्ति यूयं, 'अम्हेहि' न्ति अस्मत् 'निग्गय'त्ति निर्गताः, प्रथमे वयं यूयं चास्मन्निर्गता इत्यर्थः तेन कारणेन श्रीवीरप्रवर्त्तितं तीर्थमस्मदीयसमुदाय एव, यूयं तु तीर्थबाह्या इति दिगम्बराभिप्राय इति गाथार्थः || ५५ || अथ प्रागुक्तप्रकारेण दिगम्बरस्य मुधागर्वविध्वंसनाय गाथाष्टकेन तस्यैव तीर्थवाद्यतामा विष्कुर्वन् प्रथमगाथामाह तं मिच्छा जं पच्छा सिअंबरा दिअंबरेहि उप्पण्णा । जण्णं किरिआजुत्तं तित्थं तित्थंकरा विंति ।। ५६ ।। For Personal and Private Use Only पुराणताभ्रमः ॥१०९॥ www.jainelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy